भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.53

4.53.1

॥3॥.
-र्व्_3:8।4-
(र्व्_4,53)
तत् । देवस्य । सवितुः । वार्यम् । महत् । वृणीमहे । असुरस्य । प्रचेतसः । छर्दिः । येन । दाशुषे । यच्छति । त्मना । तत् । नः । महान् । उत् । अयान् । देवः । अक्तु-भिः

4.53.2

दिवः । धर्ता । भुवनस्य । प्रजापतिः । पिशङ्गम् । द्रापिम् । प्रति । मुञ्चते । कविः । वि-चक्षणः । प्रथयन् । आपृणन् । उरु । अजीजनत् । सविता । सुम्नम् । उक्थ्यम्

4.53.3

आ । अप्राः । रजांसि । दिव्यानि । पार्थिवा । श्लोकम् । देवः । कृणुते । स्वाय । धर्मणे । प्र । बाहू इति । अस्राक् । सविता । सवीमनि । नि-वेशयन् । प्र-सुवन् । अक्तु-भिः । जगत्

4.53.4

अदाभ्यः । भुवनानि । प्र-चाकशत् । व्रतानि । देवः । सविता । अभि । रक्षते । प्र । अस्राक् । बाहू इति । भुवनस्य । प्र-जाभ्यः । धृत-व्रतः । महः । अज्मस्य । राजति

4.53.5

त्रिः । अन्तरिक्षम् । सविता । महि-त्वना । त्री । रजांसि । परि-भूः । त्रीणि । रोचना । तिस्रः । दिवः । पृथिवीः । तिस्रः । इन्वति । त्रि-भिः । व्रतैः । अभि । नः । रक्षति । त्मना

4.53.6

बृहत्-सुम्नः । प्र-सविता । नि-वेशनः । जगतः । स्थातुः । उभयस्य । यः । वशी । सः । नः । देवः । सविता । शर्म । यच्छतु । अस्मे इति । क्षयाय । त्रि-वरूथम् । अंहसः

4.53.7

आ । अगन् । देवः । ऋतु-भिः । वर्धतु । क्षयम् । दधातु । नः । सविता । सु-प्रजाम् । इषम् । सः । नः । क्षपाभिः । अह-भिः । च । जिन्वतु । प्रजावन्तम् । रयिम् । अस्मे इति । सम् । इन्वतु

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc