भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.50

4.50.1

॥25॥.
-र्व्_3:7।26-
(र्व्_4,50)
यः । तस्तम्भ । सहसा । वि । ज्मः । अन्तान् । बृहस्पतिः । त्रि-सधस्थः । रवेण । तम् । प्रत्नासः । ऋषयः । दीध्यानाः । पुरः । विप्राः । दधिरे । मन्द्र-जिह्वम्

4.50.2

धुन-इतयः । सु-प्रकेतम् । मदन्तः । बृहस्पते । अभि । ये । नः । ततस्रे । पृषन्तम् । सृप्रम् । अदब्धम् । ऊर्वम् । बृहस्पते । रक्षतात् । अस्य । योनिम्

4.50.3

बृहस्पते । या । परमा । परावत् । अतः । आ । ते । ऋत-स्पृशः । नि । सेदुः । तुभ्यम् । खाताः । अवताः । अद्रि-दुग्धाः । मध्वः । श्चोतन्ति । अभितः । वि-रप्शम्

4.50.4

बृहस्पतिः । प्रथमम् । जायमानः । महः । ज्योतिषः । परमे । वि-ओमन् । सप्त-आस्यः । तुवि-जातः । रवेण । वि । सप्त-रश्मिः । अधमत् । तमांसि

4.50.5

सः । सु-स्तुभा । सः । ऋक्वता । गणेन । वलम् । रुरोज । फलि-गम् । रवेण । बृहस्पतिः । उस्रियाः । हव्य-सूदः । कनिक्रदत् । वावशतीः । उत् । आजत्

4.50.6

॥26॥.
-र्व्_3:7।27-
एव । पित्रे । विश्व-देवाय । वृष्णे । यज्ञैः । विधेम । नमसा । हविः-भिः । बृहस्पते । सु-प्रजाः । वीर-वन्तः । वयम् । स्याम । पतयः । रयीणाम्

4.50.7

सः । इत् । राजा । प्रति-जन्यानि । विश्वा । शुष्मेण । तस्थौ । अभि । वीर्येण । बृहस्पतिम् । यः । सु-भृतम् । बिभर्ति । वल्गु-यति । वन्दते । पूर्व-भाजम्

4.50.8

सः । इत् । क्षेति । सु-धितः । ओकसि । स्वे । तस्मै । इळा । पिन्वते । विश्व-दानीम् । तस्मै । विशः । स्वयम् । एव । नमन्ते । यस्मिन् । ब्रह्मा । राजनि । पूर्वः । एत् इ

4.50.9

अप्रति-इतः । जयति । सम् । धनानि । प्रति-जन्यानि । उत । या । स-जन्या । अवस्यवे । यः । वरिवः । कृणोति । ब्रह्मणे । राजा । तम् । अवन्ति । देवाः

4.50.10

इन्द्रः । च । सोमम् । पिबतम् । बृहस्पते । अस्मिन् । यज्ञे । मन्दसाना । वृषण्वसूइतिवृषण्-वसू । आ । वाम् । विशन्तु । इन्दवः । सु-आभुवः । अस्मे इति । रयिम् । सर्व-वीरम् । नि । यच्छतम्

4.50.11

बृहस्पते । इन्द्र । वर्धतम् । नः । सचा । सा । वाम् । सु-मतिः । भूतु । अस्मे इति । अविष्टम् । धियः । जिगृतम् । पुरम्-धीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc