ऋग्वेदसंहिता, पदपाठ · अध्याय 4.49
॥24॥.
-र्व्_3:7।25-
(र्व्_4,49)
इदम् । वाम् । आस्ये । हविः । प्रियम् । इन्द्राबृहस्पती इति । उक्थम् । मदः । च । शस्यते
अयम् । वाम् । परि । सिच्यते । सोमः । इन्द्राबृहस्पती इति । चारुः । मदाय । पीतये
आ । नः । इन्द्राबृहस्पती इति । गृहम् । इन्द्रः । च । गच्छतम् । सोम-पा । सोम-पीतये
अस्मे इति । इन्द्राबृहस्पती इति । रयिम् । धत्तम् । शत-ग्विनम् । अश्व-वन्तम् । सहस्रिणम्
इन्द्राबृहस्पती इति । वयम् । सुते । गीः-भिः । हवामहे । अस्य । सोमस्य । पीतये
सोमम् । इन्द्राबृहस्पती इति । पिबतम् । दाशुषः । गृहे । मादयेथाम् । तत्-ओकसा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0