ऋग्वेदसंहिता, पदपाठ · अध्याय 4.44
॥19॥.
-र्व्_3:7।20-
(र्व्_4,44)
तम् । वाम् । रथम् । वयम् । अद्य । हुवेम । पृथु-ज्रयम् । अश्विना । सम्-गतिम् । गोः । यः । सूर्याम् । वहति । वन्धुर-युः । गिर्वाहसम् । पुरु-तमम् । वसु-युम्
युवम् । श्रियम् । अश्विना । देवता । तान् । दिवः । नपाता । वनथः । शचीभिः । युवोः । वपुः । अभि । पृक्षः । सचन्ते । वहन्ति । यत् । ककुहासः । रथे । वाम्
कः । वाम् । अद्य । कारते । रात-हव्यः । ऊतये । वा । सुत-पेयाय । वा । अर्कैः । ऋतस्य । वा । वनुषे । पूर्व्याय । नमः । येमानः । अश्विना । आ । ववर्तत्
हिरण्ययेन । पुरुभूइतिपुरु-भू । रथेन । इमम् । यज्ञम् । नासत्या । उप । यातम् । पिबाथः । इत् । मधुनः । सोम्यस्य । दधथः । रत्नम् । विधते । जनाय
आ । नः । यातम् । दिवः । अच्छ । पृथिव्याः । हिरण्ययेन । सु-वृता । रथेन । मा । वाम् । अन्ये । नि । यमन् । देव-यन्तः । सम् । यत् । ददे । नाभिः । पूर्व्या । वाम्
नु । नः । रयिम् । पुरु-वीरम् । बृहन्तम् । दस्रा । मिमाथाम् । उभयेषु । अस्मे इति । नरः । यत् । वाम् । अश्विना । स्तोमम् । आवन् । सध-स्तुतिम् । आज-मीळ्हासः । अग्मन्
इह-इह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे इति । सु-मतिः । वाज-रत्ना । उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0