भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.45

4.45.1

॥20॥.
-र्व्_3:7।21-
(र्व्_4,45)
एषः । स्यः । भानुः । उत् । इयर्ति । युज्यते । रथः । परि-ज्मा । दिवः । अस्य । सानवि । पृक्षासः । अस्मिन् । मिथुनाः । अधि । त्रयः । दृतिः । तुरीयः । मधुनः । वि । रप्शते

4.45.2

उत् । वाम् । पृक्षासः । मधु-मन्तः । ईरते । रथाः । अश्वासः । उषसः । वि-उष्टि षु । अप-ऊर्णुवन्तः । तन्मः । आ । परि-वृतम् । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः

4.45.3

मध्वः । पिबतम् । मधु-पेभिः । आस-भिः । उत । प्रियम् । मधुने । युञ्जाथाम् । रथम् । आ । वरनिम् । मधुना । जिन्वथः । पथः । दृतिम् । वहेथेइति । मधु-मन्तम् । अश्विना

4.45.4

हंसासः । ये । वाम् । मधु-मन्तः । अस्रिधः । हिरण्य-पर्णाः । उहुवः । उषः-बुधः । उद-प्रुतः । मन्दिनः । मन्दि-निस्पृशः । मध्वः । न । मक्षः । सवनानि । गच्छथः

4.45.5

सु-अधरासः । मधु-मन्तः । अग्नयः । उस्रा । जरन्ते । प्रति । वस्तोः । अश्वि ना । यत् । निक्त-हस्तः । तरणिः । वि-चक्षणः । सोमम् । सुसाव । मधु-मन्तम् । अद्रि-भिः

4.45.6

आके--निपासः । अह-भिः । दविध्वतः । स्वः । न । शुक्रम् । तन्वन्तः । आ । रजः । सूरः । चित् । अश्वान् । युयुजानः । ईयते । विश्वान् । अनु । स्वधया । चेतथः । पथः

4.45.7

प्र । वाम् । अवोचम् । अश्विना । धियम्-धाः । रथः । सु-अश्वः । अजरः । यः । अस्ति । येन । सद्यः । परि । रजांसि । याथः । हविष्मन्तम् । तरणिम् । भोजम् । अच्छ

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc