ऋग्वेदसंहिता, पदपाठ · अध्याय 4.43
॥18॥.
-र्व्_3:7।19-
(र्व्_4,43)
कः । ओं इति । श्रवत् । कतमः । यज्ञियानाम् । वन्दारु । देवः । कतमः । जुषाते । कस्य । इमाम् । देवीम् । अमृतेषु । प्रेष्ठाम् । हृदि । श्रेषाम । सु-स्तुतिम् । सु-हव्याम्
कः । मृळाति । कतमः । आगमिष्ठः । देवानाम् । ओं इतिकतमः । शम्-भविष्ठः । रथम् । कम् । आहुः । द्रवत्-अश्वम् । आशुम् । यम् । सूर्यस्य । दुहिता । अवृणीत
मक्षु । हि । स्म । गच्छथः । ईवतः । द्यून् । इन्द्रः । न । शक्तिम् । परि-तक्म्यायाम् । दिवः । आजाता । दिव्या । सु-पर्णा । कया । शचीनाम् । भवथः । शचिष्ठा
का । वाम् । भूत् । उप-मातिः । कया । नः । आ । अश्विना । गमथः । हूयमाना । कः । वाम् । महः । चित् । त्यजसः । अभीके । उरुष्यतम् । माध्वी इति । दस्रा । नः । ऊती
उरु । वाम् । रथः । परि । नक्षति । द्याम् । आ । यत् । समुद्रात् । अभि । वरते । वाम् । मध्वा । माध्वी इति । मधु । वाम् । प्रुषायन् । यत् । सीम् । वाम् । पृक्षः । भुरजन्त । पक्वअः
सिन्धुः । ह । वाम् । रसया । सिञ्चत् । अश्वान् । घृणा । वयः । अरुषासः । परि । ग्मन् । तत् । ओं इति । सु । वाम् । अजिरम् । चेति । यानम् । येन । पती इति । भवथः । सूर्यायाः
इह-इह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे इति । सु-मतिः । वाज-रत्ना । उरुष्यतम् । जरितारम् । युवम् । ह । श्रितः । कामः । नासत्या । युवद्रिक्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0