ऋग्वेदसंहिता, पदपाठ · अध्याय 4.42
॥16॥.
-र्व्_3:7।17-
(र्व्_4,42)
मम । द्विता । राष्ट्रम् । क्षत्रियस्य । विश्व-आयोः । विश्वे । अमृताः । यथा । नः । क्रतुम् । सचन्ते । वरुणस्य । देवाः । राजामि । कृष्टेः । उपमस्य । वव्रेः
अहम् । राजा । वरुणः । मह्यम् । तानि । असुर्याणि । प्रथमा । धारयन्त । क्रतुम् । सचन्ते । वरुणस्य । देवाः । राजामि । कृष्टेः । उपमस्य । वव्रेः
अहम् । इन्द्रः । वरुणः । ते इति । महि-त्वा । उर्वी इति । गभीरे । रजसी
इति । सुमेके इतिसु-मेके । त्वष्टाइव । विश्वा । भुवनानि । विद्वान् । सम् । ऐरयम् । रोदसी इति । धारयम् । च
अहम् । अपः । अपिन्वम् । उक्षमाणाः । धरयम् । दिवम् । सदने । ऋतस्य । ऋतेन । पुत्रः । अदितेः । ऋत-वा । उत । त्रि-धातु । प्रथयत् । वि । भूम
माम् । नरः । सु-अश्वाः । वाज-यन्तः । माम् । वृताः । सम्-अरणे । हवन्ते । कृणोमि । आजिम् । मघ-वा । अहम् । इन्द्रः । इयर्मि । रेणुम् । अभिभूति-ओजाः
॥17॥.
-र्व्_3:7।18-
अहम् । ता । विश्वा । चकरम् । नकिः । मा । दैव्यम् । सहः । वरते । अप्रति-इतम् । यत् । मा । सोमासः । ममदन् । यत् । उक्था । उभे इति । भयेतेइति । रजसी इति । अपारे इति
विदुः । ते । विश्वा । भुवनानि । तस्य । ता । प्र । ब्रवीषि । वरुणाय । वेधः । त्वम् । वृत्राणि । शृण्विषे । जघन्वान् । त्वम् । वृताम् । अरिणाः । इन्द्र । सिन्धून्
अस्माकम् । अत्र । पितरः । ते । आसन् । सप्त । ऋषयः । दौः-गहे । बध्यमाने । ते । आ । अयजन्त । त्रसदस्युम् । अस्याः । इन्द्रम् । न । वृत्र-तुरम् । अर्ध-देवम्
पुरु-कुत्सानी । हि । वाम् । अदाशत् । हव्येभिः । इन्द्रावरुणा । नमः-भिः । अथ । राजानम् । त्रसदस्युम् । अस्याः । वृत्र-हनम् । ददथुः । अर्ध-देवम्
रायाः । वयम् । सस-वांसः । मदेम । हव्येन । देवाः । यवसेन । गावः । ताम् । धेनुम् । इन्द्रावरुणा । युवम् । नः । विश्वाहा । धत्तम् । अनप-स्फुरन्तीम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0