भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.4

4.4.1

॥22॥.
-र्व्_3:4।23-
(र्व्_4,4)
कृणुष्व । पाजः । प्र-सितिम् । न । पृथ्वीम् । याहि । राजाइव । अम-वान् । इभेन । तृष्वीम् । अनु । प्र-सितिम् । द्रूणानः । अस्ता । असि । विध्य । रक्षसः । तपिष्ठैः

4.4.2

तव । भ्रमासः । आशु-या । पतन्ति । अनु । स्पृश । धृषता । शोशुचानः । तपाऊंषि । अग्ने । जुह्वा । पतङ्गान् । असम्-दितः । वि । सृज । विष्वक् । उल्काः

4.4.3

प्रति । स्पशः । वि । सृज । तूर्णि-तमः । भव । पायुः । विशः । अस्याः । अदब्धः । यः । नः । दूरे । अघ-शंसः । यः । अन्ति । अग्ने । माकिः । ते । व्यथिः । आ । दधर्षीत्

4.4.4

उत् । अग्ने । तिष्ठ । प्रति । आ । तनुष्व । नि । अमित्रान् । ओषतात् । तिग्म-हेते । यः । नः । अरातिम् । सम्-इधान । चक्रे । नीचा । तम् । धक्षि । अतसम् । न । शुष्कम्

4.4.5

ऊर्ध्वः । भव । प्रति । विध्य । अधि । अस्मत् । आविः । कृणुष्व । दैव्यानि । अग्ने । अव । स्थिरा । तनुहि । यातु-जूनाम् । जामिम् । अजामिम् । प्र । मृणीहि । शत्रून्

4.4.6

॥23॥.
-र्व्_3:4।24-
सः । ते । जानाति । सु-मतिम् । यविष्ठ । यः । ईवते । ब्रह्मणे । गातुम् । ऐरत् । विश्वानि । अस्मै । सु-दिनानि । रायः । द्युम्नानि । अर्यः । वि । दुरः । अभि । द्यौत्

4.4.7

सः । इत् । अग्ने । अस्तु । सु-भगः । सु-दानुः । यः । त्वा । नित्येन । हविषा । यः । उक्थैः । पिप्रीषति । स्वे । आयुषि । दुरोणे । विश्वा । इत् । अस्मै । सु-दिना । सा । असत् । इष्टिः

4.4.8

अर्चामि । ते । सु-मतिम् । घोषि । अर्वाक् । सम् । ते । ववाता । जरताम् । इयम् । गीः । सु-अश्वाः । त्वा । सु-रथाः । मर्जयेम । अस्मे इति । क्षत्राणि । धारयेः । अनु । द्यून्

4.4.9

इह । त्वा । भूरि । आ । चरेत् । उप । त्मन् । दोषावस्तः । दीदिवांसम् । अनु । द्यून् । क्रीळन्तः । त्वा । सु-मनसः । सपेम । अभि । द्युम्ना । तस्थिवांसः । जनानाम्

4.4.10

यः । त्वा । सु-अश्वः । सु-हिरण्यः । अग्ने । उप-याति । वसु-मता । रथेन । तस्य । त्राता । भवसि । तस्य । सखा । यः । ते । आतिथ्यम् । आनुषक् । जुजोषत्

4.4.11

॥24॥.
-र्व्_3:4।25-
महः । रुजामि । बन्धुता । वचः-भिः । तत् । मा । पितुः । गोतमात् । अनु । इयाय । त्वम् । नः । अस्य । वचसः । चिकिद्धि । होतः । यविष्ठ । सुक्रतो इतिसु-क्रतो । दमूनाः

4.4.12

अस्वप्न-जः । तरणयः । सु-शेवाः । अतन्द्रासः । अवृकाः । अश्रमिष्ठाः । ते । पायवः । सध्र्यञ्चः । नि-सद्य । अग्ने । तव । नः । पान्तु । अमूर

4.4.13

ये । पायवः । मामतेयम् । ते । अग्ने । पश्यन्तः । अन्धम् । दुः-इतात् । अरक्षन् । ररक्ष । तान् । सु-कृतः । विश्व-वेदाः । दिप्सन्तः । इत् । रिपवः । न । अह । देभुः

4.4.14

त्वया । वयम् । सधन्यः । त्वाऊताः । तव । प्र-नीती । अश्याम । वाजान् । उभा । शंसा । सूदय । सत्य-ताते । अनुष्ठुया । कृणुहि । अह्रयाण

4.4.15

अया । ते । अग्ने । सम्-इधा । विधेम । प्रति । स्तोमम् । शस्यमानम् । गृभाय । दह । अशसः । रक्षसः । पाहि । अस्मान् । द्रुहः । निदः । मित्र-महः । अवद्यात्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc