ऋग्वेदसंहिता, पदपाठ · अध्याय 4.3
॥19॥.
-र्व्_3:4।20-
(र्व्_4,3)
आ । वः । राजानम् । अध्वरस्य । रुद्रम् । होतारम् । सत्य-यजम् । रोदस्योः । अग्निम् । पुरा । तनयित्नोः । अचित्तात् । हिरण्य-रूपम् । अवसे । कृणुध्वम्
अयम् । योनिः । चकृम । यम् । वयम् । ते । जायाइव । पत्ये । उशती । सु-वासाः । अर्वाचीनः । परि-वीतः । नि । सीद । इमाः । ओं इति । ते । सु-अपाक । प्रतीचीः
आशृण्वते । अदृपिताय । मन्म । नृ-चक्षसे । सु-मृळीकाय । वेधः । देवाय । शस्तिम् । अमृताय । शंस । ग्रावाइव । सोता । मधु-सुत् । यम् । ईळे
त्वम् । चित् । नः । शम्यै । अग्ने । अस्याः । ऋतस्य । बोधि । ऋत-चित् । सु-आधीः । कदा । ते । उक्था । सध-माद्यानि । कदा । भवन्ति । सख्या । गृहे । ते
कथा । ह । तत् । वरुणाय । त्वम् । अग्ने । कथा दिवे गर्हसे । कत् । नः । आगः । कथा । मित्राय । मीळ्हुषे । पृथिव्यै । ब्रवः । कत् । अर्यम्णे । कत् । भगाय
॥20॥.
-र्व्_3:4।21-
कत् । धिष्ण्यासु । वृधसानः । अग्ने । कत् । वाताय । प्र-तवसे । शुभंम्ये । परि-ज्मने । नासत्याय । क्षे । ब्रवः । कत् । अग्ने । रुद्राय । नृ-घ्ने
कथा । महे । पुष्तिम्-भराय । पूष्णे । कत् । रुद्राय । सु-मखाय । हविः-दे । कत् । व् इष्णवे । उरु-गायाय । रेतः । ब्रवः । कत् । अग्ने । शरवे । बृहत्यै
कथा । शर्धाय । मरुताम् । ऋताय । कथा । सूरे । बृहते । पृच्छ्यमानः । प्रति । ब्रवः । अदितये । तुराय । साध । दिवः । जात-वेदः । चिकित्वान्
ऋतेन । ऋतम् । नि-यतम् । ईळे । आ । गोः । आमा । सचा । मधु-मत् । पक्वम् । अग्ने । कृष्णा । सती । रुशता । धासिना । एषा । जामर्येण । पयसा । प्प्य्
ऋतेनः । हि । स्म । वृषभः । चित् । अक्तः । पुमान् । अग्निः । पयसा । पृष्ट्येन । अस्पन्दमानः । अचरत् । वयः-धाः । वृषा । शुक्रम् । दुदुहे । पृश्निः । ऊधः
॥21॥.
-र्व्_3:4।22-
ऋतेन । अद्रिम् । वि । असन् । भिदन्तः । सम् । अङ्गिरसः । नवन्त । गो--भिः । शुनम् । नरः । परि । सदन् । उषसम् । आविः । स्वः । अभवत् । जाते । अग्नौ
ऋतेन । देवीः । अमृताः । अमृक्ताः । अर्णः-भिः । आपः । मधुमत्-भिः । अग्ने । वाजी । न । सर्गेषु । प्र-स्तुभानः । प्र । सदम् । इत् । स्रवितवे । दधन्युह्
मा । कस्य । यक्षम् । सदम् । इत् । हुरः । गाः । मा । वेशस्य । प्र-मिनतः । मा । आपेः । मा । भ्रातुः । अग्ने । अनृजोः । ऋणम् । वेः । मा । सख्युः । दक्षम् । रिपोः । भुजेम
रक्षाणः । अग्ने । तव । रक्षणेभिः । ररक्षाणः । सु-मख । प्रीणानः । प्रति । स्फुर । वि । रुज । वीळु । अंहः । जहि । रक्षः । महि । चित् । ववृधानम्
एभिः । भव । सु-मनाः । अग्ने । अर्कैः । इमान् । स्पृश । मन्म-भिः । शूर । वाजान् । उत । ब्रह्माणि । अङ्गिरः । जुषस्व । सम् । ते । शस्तिः । देववाता । जरेत
एता । विश्वा । विदुषे । तुभ्यम् । वेधः । नीथानि । अग्ने । निण्या । वचांसि । नि-वचना । कवये । काव्यानि । अशंसिषम् । मति-भिः । विप्रः । उक्थैः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0