ऋग्वेदसंहिता, पदपाठ · अध्याय 4.5
॥25॥.
-र्व्_3:5।1-
(र्व्_4,5)
वैश्वानराय । मीळ्हुषे । स-जोषाः । कथा । दाशेम । अग्नये । बृहत् । भाः । अनूनेन । बृहता । वक्षथेन । उप । स्तभायत् । उप-मित् । न । रोधः
मा । निन्दत । यः । इमाम् । मह्यम् । रातिम् । देवः । ददौ । मर्याय । स्व-धावान् । पाकाय । गृत्सः । अमृतः । वि-चेताः । वैश्वानरः । नृ-तमः । यह्वः । अग्निः
साम । द्वि-बर्हाः । महि । तिग्म-भृष्टिः । सहस्र-रेताः । वृषभः । तुविष्मान् । पदम् । न । गोः । अप-गूळ्हम् । विविद्वान् । अग्निः । मह्यम् । प्र । इत् । ओं इति । वोचत् । मनीषाम्
प्र । तान् । अग्निः । बभसत् । तिग्म-जम्भः । तपिष्ठेन । शोचिषा । यः । सु-राधाः । प्र । ये । मिनन्ति । वरुणस्य । धाम । प्रिया । मित्रस्य । चेततः । ध्रुवाणि
अभ्रातरः । न । योषणः । व्यन्तः । पति-रिपः । न । जनयः । दुः-एवाः । पापासः । सन्तः । अनृताः । असत्याः । इदम् । पदम् । अजनत । गभीरम्
॥1॥.
-र्व्_3:5।2-
इदम् । मे । अग्ने । कियते । पावक । आमिनते । गुरुम् । भारम् । न । मन्म । बृहत् । दधाथ । धृषता । गभीरम् । यह्वम् । पृष्ठम् । प्रयसा । सप्त-धातु
तम् । इत् । नु । एव । समना । समानम् । अभि । क्रत्वा । पुनती । धीतिः । अश्याः । ससस्य । चर्मन् । अधि । चारु । पृश्नेः । अग्ने । रुपः । अरुपितम् । जबारु
प्र-वाच्यम् । वचसः । किम् । मे । अस्य । गुहा । हितम् । उप । निणिक् । वदन्ति । यत् । उस्रियाणाम् । अप । वाः-इव । व्रन् । पाति । प्रियम् । रुपः । अग्रम् । पदम् । वेः
इदम् । ओं इति । त्यत् । महि । महाम् । अनीकम् । यत् । उस्रिया । सचत । पूर्व्यम् । गौः । ऋतस्य । पदे । अधि । दीद्यानम् । गुहा । रघु-स्यत् । रघु-यत् । विवेद
अध । द्युतानः । पित्रोः । सचा । आसा । अमनुत । गुह्यम् । चारु । पृश्नेः । मातुः । पदे । परमे । अन्ति । सत् । गोः । वृष्णः । शोचिषः । प्र-यतस्य । जिह्वा
॥2॥.
-र्व्_3:5।3-
ऋतम् । वोचे । नमसा । पृच्छ्यमानः । तव । आशसा । जात-वेदः । यदि । इदम् । त्वम् । अस्य । क्षयसि । यत् । ह । विश्वम् । दिवि । यत् ओं इति । द्रविणम् । यत् । पृथिव्याम्
किम् । नः । अस्य । द्रविणम् । कत् । ह । रत्नम् । वि । नः । वोचः । जात-वेदः । चि कित्वान् । गुहा । अध्वनः । परमम् । यत् । नः । अस्य । रेकु । पदम् । न । नि-दानाः । अगन्म
का । मर्यादा । वयुना । कत् । ह । वामम् । अच्छ । गमेम । रघवः । न । वाजम् । कदा । नः । देवीः । अमृतस्य । पत्नीः । सूरः । वर्णेन । ततनन् । उषसः
अनिरेण । वचसा । फल्ग्वेन । प्रतीत्येन । कृधुना । अतृपासः । अध । ते । अग्ने । क् इम् । इह । वदन्ति । अनायुधासः । आसता । सचन्ताम्
अस्य । श्रिये । सम्-इधानस्य । वृष्णः । वसोः । अनीकम् । दमे । आ । रुरोच । रुशत् । वसानः । सुदृशीक-रूपः । क्षितिः । न । राया । पुरु-वारः । अद्यौत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0