ऋग्वेदसंहिता, पदपाठ · अध्याय 4.35
॥4॥.
-र्व्_3:7।5-
(र्व्_4,35)
इह । उप । यात । शवसः । नपातः । सौधन्वनाः । ऋभवः । मा । अप । भूत । अस्मिन् । हि । वः । सवने । रत्न-धेयम् । गमन्तु । इन्द्रम् । अनु । वः । मदासः
आ । अगन् । ऋभूणाम् । इह । रत्न-धेयम् । अभूत् । सोमस्य । सु-सुतस्य । पीतिः । सु-कृत्यया । यत् । सु-अपस्यया । च । एकम् । वि-चक्र । चमसम् । चतुः-धा
वि । अकृणोत । चमसम् । चतुः-धा । सखे । वि । शिक्ष । इति । अब्रवीत । अथ । ऐत । वाजाः । अमृतस्य । पन्थाम् । गणम् । देवानाम् । ऋभवः । सु-हस्ताः
किम्-मयः । स्वित् । चमसः । एषः । आस । यम् । काव्येन । चतुरः । वि-चक्र । अथ । सुनुध्वम् । सवनम् । मदाय । पात । ऋभवः । मधुनः । सोम्यस्य
शच्या । अकर्त । पितरा । युवाना । शच्या । अकर्त । चमसम् । देव-पानम् । शच्या । हरी इति । धनु-तरौ । अतष्ट । इन्द्र-वाहौ । ऋभवः । वाज-रत्नाः
॥5॥.
-र्व्_3:7।6-
यः । वः । सुनोति । अभि-पित्वे । अह्नाम् । तीव्रम् । वाजासः । सवनम् । मदाय । तस्मै । रयिम् । ऋभवः । सर्व-वीरम् । आ । ताक्षत । वृषणः । मन्दसानाः
प्रातरिति । सुतम् । अपिबः । हरि-अश्व । माध्यन्दिनम् । सवनम् । केवलम् । ते । सम् । ऋभु-भिः । पिबस्व । रत्न-धेभिः । सखीन् । यान् । इन्द्र । चकृषे । सु-कृत्या
ये । देवासः । अभवत । सु-कृत्या । श्येनाः-इव । इत् । अधि । दिवि । नि-सेद । ते । रत्नम् । धात । शवसः । नपातः । सौधन्वनाः । अभवत । अमृतासः
यत् । तृतीयम् । सवनम् । रत्न-धेयम् । अकृणुध्वम् । सु-अपस्या । सु-हस्ताः । तत् । ऋभवः । परि-सिक्तम् । वः । एतत् । सम् । मदेभिः । इन्द्रियेभिः । पिबध्वम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0