ऋग्वेदसंहिता, पदपाठ · अध्याय 4.36
॥6॥.
-र्व्_3:7।7-
(र्व्_4,36)
अनश्वः । जातः । अनभीशुः । उक्थ्यः । रथः । त्रि-चक्रः । परि । वर्तते । रजः । महत् । तत् । वः । देव्यस्य । प्र-वाचनम् । द्याम् । ऋभवः । पृथिवीम् । यत् । च । पुष्यथ
रथम् । ये । चक्रुः । सु-वृतम् । सु-चेतसः । अवि-ह्वरन्तम् । मनसः । परि । ध्यया । तान् । ओं इति । नु । अस्य । सवनस्य । पीतये । आ । वः । वाजाः । ऋभवः । वेदयामसि
तत् । वः । वाजाः । ऋभवः । सु-प्रवाचनम् । देवेषु । वि-भ्वः । अभवत् । मह् इ-त्वनम् । जिव्री इति । यत् । सन्ता । पितरा । सनाजुरा । पुनः । युवाना । चरथाय । तक्षथ
एकम् । वि । चक्र । चमसम् । चतुः-वयम् । निः । चर्मणः । गाम् । अरिणीत । धीति-भिः । अथ । देवेषु । अमृत-त्वम् । आनश । श्रुश्टी । वाजाः । ऋभवः । तत् । वः । उक्थ्यम्
ऋभुतः । रयिः । प्रथमश्रवः-तमः । वाज-श्रुतासः । यम् । अजीजनन् । नरः । विभ्व-तष्टः । विदथेषु । प्र-वाच्यः । यम् । देवासः । अवथ । सः । वि-चर्षणिः
॥7॥.
-र्व्_3:7।8-
सः । वाजी । अर्वा । सः । ऋषिः । वचस्यया । सः । शूरः । अस्ता । पृतनासु । दुस्तरः । सः । रायः । पोषम् । सः । सु-वीर्यम् । दधे । यम् । वाजः । वि-भ्वा । ऋभवः । यम् । आविषुः
श्रेष्ठम् । वः । पेशः । अधि । धायि । दर्शतम् । स्तोमः । वाजाः । ऋभवः । तम् । जुजुष्टन । धीरासः । हि । स्थ । कवयः । विपः-चितः । तान् । वः । एना । ब्रह्मणा । आ । वेदयामसि
यूयम् । अस्मभ्यम् । धिषणाभ्यः । परि । विद्वांसः । विश्वा । नर्याणि । भोजना । द्यु-मन्तम् । वाजम् । वृष-शुष्मम् । उत्-तमम् । आ । नः । रयिम् । ऋभवः । तक्षत । आ । वयः
इह । प्र-जाम् । इह । रयिम् । रराणाः । इह । श्रवः । वीर-वत् । तक्षत । नः । येन । वयम् । चितयेम । अति । अन्यान् । तम् । वाजम् । चित्रम् । ऋभवः । दद । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0