भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.34

4.34.1

॥2॥.
-र्व्_3:7।3-
(र्व्_4,34)
ऋभुः । वि-भ्वा । वाजः । इन्द्रः । नः । अच्छ । इमम् । यज्ञम् । रत्न-धेया । उप । यात । इदा । हि । वः । धिषणा । देवी । अह्वाम् । अधात् । पीतिम् । सम् । मदाः । अग्मत । वः

4.34.2

विदानासः । जन्मनः । वाज-रत्नाः । उत । ऋतु-भिः । ऋभवः । मादयध्वम् । सम् । वः । मदाः । अग्मत । सम् । पुरम्-धिः । सु-वीराम् । अस्मे इति । रयिम् । आ । ईरयध्वम्

4.34.3

अयम् । वः । यज्ञः । ऋभवः । अकारि । यम् । आ । मनुष्वत् । प्र-दिवः । दधिध्वे । प्र । वः । अच्छ । जुजुषाणासः । अस्थुः । अभूत । विश्वे । अग्रिया । उत । वाजाः

4.34.4

अभूत् । ओं इति । वः । विधते । रत्न-धेयम् । इदा । नरः । दाशुषे । मर्त्याय । पिबत । वाजाः । ऋभवः । ददे । वः । महि तृतीयम् । सवनम् । मदाय

4.34.5

आ । वाजाः । यात । उप । नः । ऋभुक्षाः । महः । नरः । द्रविणसः । गृणानाः । आ । वः । पीतयः । अभि-पित्वे । अह्नाम् । इमाः । अस्तम् । नवस्वः-इव । ग्मन्

4.34.6

॥3॥.
-र्व्_3:7।4-
आ । नपातः । शवसः । यातन । उप । इमम् । यज्ञम् । नमसा । हूयमानाः । स-जोषसः । सूरयः । यस्य । च । स्थ । मध्वः । पात । रत्न-धाः । इन्द्र-वन्तः

4.34.7

स-जोषाः । इन्द्र । वरुणेन । सोमम् । स-जोषाः । पाहि । गिर्वणः । मरुत्-भिः । अग्रे--पाभिः । ऋतु-पाभिः । स-जोषाः । ग्नाःपत्नीभिः । रत्न-धाभिः । स-जोषाः

4.34.8

स-जोषसः । आदित्यैः । मादयध्वम् । स-जोषसः । ऋभवः । पर्वतेभिः । स-जोषसः । दैव्येन । सवित्रा । स-जोषसः । सिन्धु-भिः । रत्न-धेभिः

4.34.9

ये । अस्विना । ये । पितरा । ये । ऊती । धेनुम् । ततक्षुः । ऋभवः । ये । अश्वा । ये । अंसत्रा । य ऋधक् । रोदसी इति । ये । वि-भ्वः । नरः । सु-अपत्यानि । चक्रुः

4.34.10

ये । गो--मन्तम् । वाज-वन्तम् । सु-वीरम् । रयिम् । धत्थ । वसु-मन्तम् । पुरु-क्षुम् । ते । अग्रे--पाः । ऋभवः । मन्दसानाः । अस्मे इति । धत्त । ये । च । रातिम् । गृणन्ति

4.34.11

न । अप । अभूत । न । वः । अतीतृषाम । अनिः-शस्ताः । ऋभवः । यज्ञे । अस्मिन् । सम् । इन्द्रेण । मदथ । सम् । मरुत्-भिः । सम् । राज-भिः । रत्न-धेयाय । देवाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc