ऋग्वेदसंहिता, पदपाठ · अध्याय 4.33
॥30॥.
-र्व्_3:7।1-
(र्व्_4,33)
प्र । ऋभु-भ्यः । दूतम्-इव । वाचम् । इष्ये । उप-स्तिरे । श्वैतरीम् । धेनुम् । ईळे । ये । वात-जूताः । तरणि-भिः । एवैः । परि । द्याम् । सद्यः । अपसः । बभूवुः
यदा । अरम् । अक्रन् । ऋभवः । पितृ-भ्याम् । परि-विष्टी । वेषणा । दंसनाभिः । आत् । इत् । देवानाम् । उप । सख्यम् । आयन् । धीरासः । पुष्टिम् । अवहन् । मनायै
पुनः । ये । चक्रुः । पितरा । युवाना । सना । यूपाइव । जरणा । शयाना । ते । वाजः । वि-भ्वा । ऋभुः । इन्द्रवन्तः । मधु-प्सरसः । नः । अवन्तु । यज्ञम्
यत् । सम्-वत्सम् । ऋभवः । गाम् । अरक्षन् । यत् । सम्-वत्सम् । ऋभवः । माः । अपिंशन् । यत् । सम्-वत्सम् । अभरन् । भासः । अस्याः । ताभिः । शमीभिः । अमृत-त्वम् । आशुः
ज्येष्ठः । आह । चमसा । द्वा । कर । इति । कनीयान् । त्रीन् । कृणवाम । इति । आह । कन् इष्ठः । आह । चतुरः । कर । इति । त्वष्टा । ऋभवः । तत् । पनयत् । वचः । वः
॥1॥.
-र्व्_3:7।2-
सत्यम् । ऊचुः । नरः । एव । हि । चक्रुः । अनु । स्वधाम् । ऋभवः । जग्मुः । एताम् । वि-भ्राजमानान् । चमसान् । अहाइव । अवेनत् । त्वष्टा । चतुरः । ददृश्वान्
द्वादश । द्यून् । यत् । अगोह्यस्य । आतिथ्ये । रणन् । ऋभवः । ससन्तः । सु-क्षेत्रा । अकृण्वन् । अनयन्त । सिन्धून् । धन्व । आ । अतिष्ठन् । ओषधीः । निम्नम् । आपः
रथम् । ये । चक्रुः । सु-वृतम् । नरे--स्थाम् । ये । धेनुम् । विश्व-जुवम् । विश्व-रूपाम् । ते । आ । तक्षन्तु । ऋभवः । रयिम् । नः । सु-अवसः । सु-अपसः । सु-हस्ताः
अपः । हि । एषाम् । अजुषन्त । देवाः । अभि । क्रत्वा । मनसा । दीध्यानाः । वाजः । देवानाम् । अभवत् । सु-कर्मा । इन्द्रस्य । ऋभुक्षाः । वरुणस्य । वि-भ्वा
ये । हरी इति । मेधया । उक्था । मदन्तः । इन्द्राय । चक्रुः । सु-युजा । ये । अश्वा । ते । रायः । पोषम् । द्रविणानि । अस्मे इति । धत्त । ऋभवः । क्षेम-यन्तः । न । मित्रम्
इदा । अह्नः पीतिम् । उत । वः । मदम् । धुः । न । ऋते । श्रान्तस्य । सख्याय । देवाः । ते । नूनम् । अस्मे इति । ऋभवः । वसूनि । तृतीये । अस्मिन् । सवने । दधात
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0