ऋग्वेदसंहिता, पदपाठ · अध्याय 4.32
॥26॥.
-र्व्_3:6।27-
(र्व्_4,32)
आ । तु । नः । इन्द्र । वृत्र-हन् । अस्माकम् । अर्धम् । आ । गहि । महान् । महीभिः । ऊति-भिः
भृमिः । चित् । घ । असि । तूतुजिः । आ । चित्र । चित्रिणीषु । आ । चित्रम् । कृणोषि । ऊतये
दभ्रेभिः । चित् । शशीयांसम् । हंसि । व्राधन्तम् । ओजसा । सखि-भिः । ये । त्वे इति । सचा
वयम् । इन्द्र । त्वे इति । सचा । वयम् । त्वा । अभि । नोनुमः । अस्मान्-अस्मान् । इत् । उत् । अव
सः । नः । चित्राभिः । अद्रि-वः । अनवद्याभिः । ऊति-भिः । अनाधृष्टाभिः । आ । गह् इ
॥27॥.
-र्व्_3:6।28-
भूयामो इति । सु । त्वावतः । सखायः । इन्द्र । गो--मतः । युजः । वाजाय । घृष्वये
त्वम् । हि । एकः । ईशिषे । इन्द्र । वाजस्य । गो--मतः । सः । नः । यन्धि । महीम् । इषम्
न । त्वा । वरन्ते । अन्यथा । यत् । दित्ससि । स्तुतः । मघम् । स्तोतृ-भ्यः । इन्द्र । गिर्वणः
अभि । त्वा । गोतमाः । गिरा । अनूषत । प्र । दावने । इन्द्र । वाजाय । घृष्वये
प्र । ते । वोचाम । वीर्या । याः । मन्दसनः । आ । अरुजः । पुरः । दासीः । अभि-इत्य
॥28॥.
-र्व्_3:6।29-
ता । ते । गृणन्ति । वेधसः । यानि । चकर्थ । पैंस्या । सुतेषु । इन्द्र । गिर्वणः
अवीवृधन्त । गोतमाः । इन्द्र । त्वे इति । स्तोम-वाहसः । आ । एषु । धाः । वीर-वत् । यशः
यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् । तम् । त्वा । वयम् । हावामहे
अर्वाचीनः । वसो इति । भव । अस्मे इति । सु । मत्स्व । अन्धसः । सोमानाम् । इन्द्र । सोम-पाः
अस्माकम् । त्वा । मतीनाम् । आ । स्तोमः । इन्द्र । यच्छतु । अर्वाक् । आ । वर्तय । हरी इति
पुरोळासम् । च । नः । घसः । जोषयासे । गिरः । च । नः । वधूयुः-इव । योषणाम्
॥29॥.
-र्व्_3:6।30-
सहस्रम् । व्यतीनाम् । युक्तानाम् । इन्द्रम् । ईमहे । शतम् । सोमस्य । खार्यः
सहस्रा । ते । शता । वयम् । गवाम् । आ । च्यावयामसि । अस्म-त्रा । राधः । एतु । ते
दश । ते । कलशानाम् । हिरण्यानाम् । अधीमहि । भूरि-दाः । असि । वृत्र-हन्
भूरि-दाः । भूरि । देहि । नः । मा । दभ्रम् । भूरि । आ । भर । भूरि । घ । इत् । इन्द्र । दित्ससि
भूरि-दाः । हि । असि । श्रुतः । पुरु-त्रा । शूर । वृत्र-हन् । आ । नः । भजस्व । राधसि
प्र । ते । बभ्रू इति । वि-चक्षण । शंसामि । गो--सणः । नपात् । मा । आभ्याम् । गाः । अनु । शिश्रथः
कनीनकाइव । विद्रधे । नवे । द्रु-पदे । अर्भके । बभ्रू इति । यामेषु । शोभेतेइति
अरम् । मे । उस्र-याम्णे । अरम् । अनुस्र-याम्णे । बभ्रू इति । यामेषु । अस्रिधा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0