ऋग्वेदसंहिता, पदपाठ · अध्याय 4.31
॥23॥.
-र्व्_3:6।24-
(र्व्_4,31)
कया । नः । चित्रः । आ । भुवत् । ऊती । सदावृधः । सखा । कया । शचिष्ठया । वृता
कः । त्वा । सत्यः । मदानाम् । मंहिष्ठः । मत्सत् । अन्धसः । दृळ्हा । चित् । आरुजे । वसु
अभि । सु । नः । सखीनाम् । अविता । जरितॄणाम् । शतम् । भवासि । ऊति-भिः
अभि । नः । आ । ववृत्स्व । चक्रम् । न । वृत्तम् । अर्वतः । नियुत्-भिः । चर्षणीनाम्
प्र-वता । हि । क्रतूनाम् । आ । ह । पदाइव । गच्छसि । अभक्षि । सूर्ये । सचा
॥24॥.
-र्व्_3:6।25-
सम् । यत् । ते । इन्द्र । मन्यवः । सम् । चक्राणि । दधन्विरे । अध । त्वे इति । अध । सूर्ये
उत । स्म । हि । त्वाम् । आहुः । इत् । मघ-वानम् । शची-पते । दातारम् । अवि-दीधयुम्
उत । स्म । सद्यः । इत् । परि । शशमानाय । सुन्वते । पुरु । चित् । मंहसे । वसु
नहि । स्म । ते । शतम् । चन । राधः । वरन्ते । आमुरः । न । च्यौत्नानि । करिष्यतः
अस्मान् । अवन्तु । ते । शतम् । अस्मान् । सहस्रम् । ऊतयः । अस्मान् । विश्वाः । अभिष्टयः
॥25॥.
-र्व्_3:6।26-
अस्मान् । इह । वृणीष्व । सख्याय । स्वस्तये । महः । राये । दिवित्मते
अस्मान् । अविड्ढि । विश्व-हा । इन्द्र । राया । परीणसा । अस्मान् । विश्वाभिः । ऊति-भिः
अस्मभ्यम् । तान् । अप । वृधि । व्रजान् । अस्ताइव । गो--मतः । नवाभिः । इन्द्र । ऊति-भिः
अस्माकम् । धृष्णु-या । रथः । द्यु-मान् । इन्द्र । अनप-च्युतः । गव्युः । अश्वयुः । ईयते
अस्माकम् । उत्-तमम् । कृधि । श्रवः । देवेषु । सूर्य । वर्षिष्ठम् । द्याम्-इव । उपरि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0