भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.30

4.30.1

॥18॥.
-र्व्_3:6।19-
(र्व्_4,30)
नकिः । इन्द्र । त्वत् । उत्-तरः । न । ज्यायान् । अस्ति । वृत्र-हन् । नकिः । एव । यथा । त्वम्

4.30.2

सत्रा । ते । अनु । कृष्टयः । विश्वा । चक्राइव । ववृतुः । सत्रा । महान् । असि । श्रुतः

4.30.3

विश्वे । चन । इत् । अना । त्वा । देवासः । इन्द्र । युयुधुः । यत् । अहा । नक्तम् । आ । अत् इरः

4.30.4

यत्र । उत । बाधितेभ्यः । चक्रम् । कुत्साय । युध्यते । मुषायः । इन्द्र । सूर्यम्

4.30.5

यत्र । देवान् । ऋघायतः । विश्वान् । अयुध्यः । एकः । इत् । त्वम् । इन्द्र । वनून् । अहन्

4.30.6

॥19॥.
-र्व्_3:6।20-
यत्र । उत । मर्त्याय । कम् । अरिणाः । इन्द्र । सूर्यम् । प्र । आवः । शचीभिः । एतशम्

4.30.7

किम् । आत् । उत । असि । वृत्र-हन् । मघ-वन् । मन्युमत्-तमः । अत्र । अह । दानुम् । आ । अतिरः

4.30.8

एतत् । घ । इत् । उत । वीर्यम् । इन्द्र । चकर्थ । पैंस्यम् । स्त्रियम् । यत् । दुः-हनायुवम् । वधीः । दुहितरम् । दिवः

4.30.9

दिवः । चित् । घ । दुहितरम् । महान् । महीयमानाम् । उषसम् । इन्द्र । सम् । पिणक्

4.30.10

अप । उषाः । अनसः । सरत् । सम्-पिष्टात् । अह । बिभ्युषी । नि । यत् । सीम् । शिश्नथत् । वृषा

4.30.11

॥20॥.
-र्व्_3:6।21-
एतत् । अस्याः । अनः । शये । सु-सम्पिष्टम् । वि-पाशि । आ । ससार । सीम् । परावतः

4.30.12

उत । सिन्धुम् । वि-बाल्यम् । वि-तस्थानाम् । अधि । क्षमि । परि । स्थाः । इन्द्र । मायया

4.30.13

उत । शुष्णस्य । धृष्णु-या । प्र । मृक्षः । अभि । वेदनम् । पुरः । यत् । अस्य । सम्-पिणक्

4.30.14

उत । दासम् । कौलि-तरम् । बृहतः । पर्वतात् । अधि । अव । अहन् । इन्द्र । शम्बरम्

4.30.15

उत । दासस्य । वर्चिनः । सहस्राणि । शता । अवधीः । अधि । पञ्च । प्रधीन्-इव

4.30.16

॥21॥.
-र्व्_3:6।22-
उत । त्यम् । पुत्रम् । अग्रुवः । परावृक्तम् । शत-क्रतुः । उक्थेषु । इन्द्रः । आ । अभजत्

4.30.17

उत । त्या । तुर्वशायदू इति । अस्नातारा । शची-पतिः । इन्द्रः । विद्वान् । अपारयत्

4.30.18

उत । त्या । सद्यः । आर्या । सरयोः । इन्द्र । पारतः । अर्णाचित्ररथा । अवधीः

4.30.19

अनु । द्वा । जहिता । नयः । अन्धम् । श्रोणम् । च । वृत्र-हन् । न । तत् । ते । सुम्नम् । अष्टवे

4.30.20

शतम् । अश्मन्-मयीनाम् । पुराम् । इन्द्रः । वि । आस्यत् । दिवः-दासाय । दाशुषे

4.30.21

॥22॥.
-र्व्_3:6।23-
अस्वापयत् । दभीतये । सहस्रा । त्रिंशतम् । हथैः । दासानाम् । इन्द्रः । मायया

4.30.22

सः । घ । इत् । उत । असि । वृत्र-हन् । समानः । इन्द्र । गो--पतिः । यः । ता । विश्वानि । चिच्युषे

4.30.23

उत । नूनम् । यत् । इन्द्रियम् । करिष्याः । इन्द्र । पैंस्यम् । अद्य । नकिः । टत् । आ । मिनत्

4.30.24

वमम्-वामम् । ते । आदुरे । देवः । ददातु । अर्यमा । वामम् । पूषा । वामम् । भगः । वामम् । देवः । करूळती

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc