भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.29

4.29.1

॥17॥.
-र्व्_3:6।18-
(र्व्_4,29)
आ । नः । स्तुतः । उप । वाजेभिः । ऊती । इन्द्र । याहि । हरि-भिः । मन्दसानः । ति रः । चित् । अर्यः । सवना । पुरूणि । आङ्गूषेभिः । गृणानः । सत्य-राधाः

4.29.2

आ । हि । स्म । याति । नर्यः । चिकित्वान् । हूयमानः । सोतृ-भिः । उप । यज्ञम् । सु-अश्वः । यः । अभीरुः । मन्यमानः । सु-स्वाणेभिः । मदति । सम् । ह । वीरैः

4.29.3

श्रावय । इत् । अस्य । कर्णा । वाजयध्यै । जुष्टाम् । अनु । प्र । दिशम् । मन्दयध्यै । उत्-ववृषाणः । राधसे । तुविष्मान् । करत् । नः । इन्द्रः । सु-तीर्था । अभयम् । च

4.29.4

अच्छ । यः । गन्ता । नाधमानम् । ऊती । इत्था । विप्रम् । हवमानम् । गृणन्तम् । उप । त्मनि । दधानः । धुरि । आशून् । सहस्राणि । शतानि । वज्र-बाहुः

4.29.5

त्वाऊतासः । मघ-वन् । इन्द्र । विप्राः । वयम् । ते । स्याम । सूरयः । गृणन्तः । भेजानासः । बृहत्-दिवस्य । रायः । आकाय्यस्य । दावने । पुरु-क्षोः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc