ऋग्वेदसंहिता, पदपाठ · अध्याय 4.2
॥15॥.
-र्व्_3:4।16-
(र्व्_4,2)
यः । मर्त्येषु । अमृतः । ऋत-वा । देवः । देवेषु । अरतिः । नि-धायि । होता । यजिष्ठः । मह्ना । शुचध्यै । हव्यैः । अग्निः । मनुषः । ईरयध्यै
इह । त्वम् । सूनो इति । सहसः । नः । अद्य । जातः । जातान् । उभयान् । अन्तः । अग्ने । दूतः । ईयसे । य्य्जानः । ष्व् । ऋजु-मुष्कान् । वृषणः । शुक्रान् । च
अत्या । वृधस्नू इतिवृध-स्नू । रोहिता । घृतस्नूइतिघृत-स्नू । ऋतस्य । मन्ये । मनसा । जविष्ठा । अन्तः । ईयसे । अरुषा । युजानः । युष्मान् । च । देवान् । विशः । आ । च । मर्तान्
अर्यमणम् । वरुणम् । मित्रम् । एषाम् । इन्द्राविष्णूइति । मरुतः । अश्विना । उत । सु-अश्वः । अग्ने । सु-रथः । सु-राधाः । आ । इत् । ओं इति । वह । सु-हविषे । जनाय
गो--मान् । अग्ने । अवि-मान् । अश्वी । यज्ञः । नृवत्-सखा । सदम् । इत् । अप्र-मृष्यः । इळावान् । एषः । असुर । प्रजावान् । दीर्घः । रयिः । पृथु-बुध्नः । सभावान्
॥16॥.
-र्व्_3:4।17-
यः । ते । इध्मम् । जभरत् । सिष्विदानः । मूर्धानम् । वा । ततपते । त्वाया । भुवः । तस्य । स्व-तवान् । पायुः । अग्ने । विश्वस्मात् । सीम् । अघ-यतः । उरुष्य
यः । ते । भरात् । अन्नि-यते । चित् । अन्नम् । नि-शिषत् । मन्द्रम् । अतिथिम् । उत्-ईरत् । आ । देव-युः । इनधते । दुरोणे । तस्मिन् । रयिः । ध्रुवः । अस्तु । दास्वान्
यः । त्वा । दोषा । यः । उषसि । प्र-शंसात् । प्रियम् । वा । त्वा । कृणवते । हविष्मान् । अश्वः । न । स्वे । दमे । आ । हेम्यावान् । तम् । अंहसः । पीपरः । दाश्वांसम्
यः । तुभ्यम् । अग्ने । अमृताय । दाश-हुवः । त्वे इति । कृणवते । यत-स्रुक् । न । सः । राया । शशमानः । वि । योषत् । न । एनम् । अंहः । परि । वरत् । अघ-योः
यस्य । त्वम् । अग्ने । अध्वरम् । जुजोषः । देवः । मर्तस्य । सु-धितम् । रराणः । प्रीता । इत् । असत् । होत्रा । सा । यविष्ठ । असाम । यस्य । विधतः । वृधासः
॥17॥.
-र्व्_3:4।18-
चित्तिम् । अचित्तिम् । चिनवत् । वि । विद्वान् । पृष्टाइव । वीता । वृजिना । च । मर्तान् । राये । च । नः । सु-अपत्याय । देव । दितिम् । च । रास्व । अदितिम् । उरुष्य
कविम् । शशासुः । कवयः । अदब्धाः । नि-धारयन्तः । दुर्यासु । आयोः । अतः । त्वम् । दृश्यान् । अग्ने । एतान् । पट्-भिः । पश्येः । अद्भुताम् । अर्यः । एवैः
त्वम् । अग्ने । वाघते । सु-प्रनीतिः । सुत-सोमाय । विधते । यविष्ठ । रत्नम् । भर । शशमानाय । घृष्वे । पृथु । चन्द्रम् । अवसे । चर्षणि-प्राः
अध । ह । यत् । वयम् । अग्ने । त्वाया । पट्-भिः । हस्तेभिः । चकृम । तनूभिः । रथम् । न । क्रन्तः । अपसा । भुरिजोः । ऋतम् । येमुः । सु-ध्यः । आशुषाणाः
अध । मातुः । उषसः । सप्त । विप्राः । जायेमहि । प्रथमाः । वेधसः । नॄन् । दिवः । पुत्राः । अङ्गिरसः । भवेम । अद्रिम् । रुजेम । धनिनम् । शुचन्तः
॥18॥.
-र्व्_3:4।19-
अध । यथा । नः । पितरः । परासः । प्रत्नासः । अग्ने । ऋतम् । आशुषाणाः । शुचि । इत् । अयन् । दीधितिम् । उक्थ-शासः । क्षामा । भिन्दन्तः । अरुणीः । अप । व्रन्
सु-कर्माणः । सु-रुचः । देव-यन्तः । अयः । न । देवाः । जनिम । धमन्तः । शुचन्तः । अग्निम् । ववृधन्तः । इन्द्रम् । ऊर्वम् । गव्यम् । परि-सदन्तः । अग्मन्
आ । यूथाइव । क्षु-मति । पश्वः । अख्यत् । देवानाम् । यत् । जनिम । अन्ति । उग्र । मर्तानाम् । चित् । उर्वशीः । अकृप्रन् । वृधे । चित् । अर्यः । उपरस्य । आयोः
अकर्म । ते । सि-अपसः । अभूम । ऋतम् । अवस्रन् । उषसः । वि-भातीः । अनूनम् । अग्निम् । पुरुधा । सु-चन्द्रम् । देवस्य । मर्मृजतः । चारु । चक्षुः
एता । ते । अग्ने । उचथानि । वेधः । अवोचाम । कवये । ता । जुषस्व । उत् । शोचस्व । कृणुहि । वस्यसः । नः । महः । रायः । पुरु-वार । प्र । यन्धि
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0