ऋग्वेदसंहिता, पदपाठ · अध्याय 4.28
॥16॥.
-र्व्_3:6।17-
(र्व्_4,28)
त्वा । युजा । तव । तत् । सोम । सख्ये । इन्द्रः । अपः । मनवे । स-स्रुतः । करितिकः । अहन् । अहिम् । अरिणात् । सप्त । सिन्धून् । अप । अवृणोत् । अपिहिताइव । खानि
त्वा । युजा । नि । खिदत् । सूर्यस्य । इन्द्रः । चक्रम् । सहसा । सद्यः । इन्दो इति । अधि । स्नुना । बृहता । वर्तमानम् । महः । द्रुहः । अप । विश्व-आयु । धायि
अहन् । इन्द्रः । अदहत् । अग्निः । इन्दो इति । पुरा । दम्यून् । मध्यन्दिनात् । अभीके । दुः-गे । दुरोणे । क्रत्वा । न । याताम् । पुरु । सहस्रा । शर्वा । नि । बर्हीत्
विश्वस्मात् । सीम् । अधमान् । इन्द्र । दस्यून् । विशः । दासीः । अकृणोः । अप्र-शस्ताः । अबाधेथाम् । अमृणतम् । नि । शत्रून् । अविन्देथाम् । अप-चितिम् । वधत्रैः
एव । सत्यम् । मघवाना । युवम् । तत् । इन्द्रः । च । सोम । ऊर्वम् । अश्व्यम् । गोः । आ । अदर्दृतम् । अपि-हितानि । अश्ना । रिरिचथुः । क्षाः । चित् । ततृदाना
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0