भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.27

4.27.1

॥15॥.
-र्व्_3:6।16-
(र्व्_4,27)
गर्भे । नु । सन् । अनु । एषाम् । अवेदम् । अहम् । देवानाम् । जनिमानि । विश्वा । शतम् । मा । पुरः । आयसीः । अरक्षन् । अध । श्येनः । जवसा । निः । अदीयम्

4.27.2

न । घ । सः । माम् । अप । जोषम् । जभार । अभि । ईम् । आस । त्वक्षसा । वीर्येण । ईमार् । पुरम्-धिः । अजहात् । अरातीः । उत । वातान् । अतरत् । शूशुवानः

4.27.3

अव । यत् । श्येनः । अस्वनीत् । अध । द्योः । वि । यत् । यदि । वा । अतः । ऊहुः । पुरम्-धिम् । सृजत् । यत् । अस्मै । अव । ह । क्षिपत् । ज्याम् । कृशानुः । अस्ता । मनसा । भुरण्यन्

4.27.4

ऋजिप्यः । ईम् । इन्द्र-वतः । न । भुज्युम् । श्येनः । जभार । बृहतः । अधि । स्नोः । अन्तरिति । पतत् । पतत्रि । अस्य । पर्णम् । अध । यामनि । प्र-सितस्य । तत् । वेः

4.27.5

अध । श्वेतम् । कलशम् । गोभिः । अक्तम् । आपिप्यानम् । मघ-वा । शुक्रम् । अन्धः । अध्वर्यु-भिः । प्र-यतम् । मध्वः । अग्रम् । इन्द्रः । मदाय । प्रति । धत् । पिबध्यै । शूरः । मदाय । प्रति । धत् । पिबध्यै

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc