भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.26

4.26.1

॥14॥.
-र्व्_3:6।15-
(र्व्_4,26)
अहम् । मनुः । अभवम् । सूर्यः । च । अहम् । कक्षीवान् । ऋषिः । अस्मि । विप्रः । अहम् । कुत्सम् । आर्जुनेयम् । नि । ऋञ्जे । अहम् । कविः । उशना । पश्यत । मा

4.26.2

अहम् । भूमिम् । अददाम् । आर्याय । अहम् । वृष्टिम् । दाशुषे । मर्त्याय । अहम् । अपः । अनयम् । ववशानाः । मम । देवासः । अनु । केतम् । आयन्

4.26.3

अहम् । पुरः । मन्दसानः । वि । ऐरम् । नव । साकम् । नवतीः । शम्बरस्य । शत-तमम् । वेश्यम् । सर्व-ताता । दिवः-दासम् । अतिथि-ग्वम् । यत् । आवम्

4.26.4

प्र । सु । सः । वि-भ्यः । मरुतः । विः । अस्तु । प्र । श्येनः । श्येनेभ्यः । आशु-पत्वा । अचक्रया । यत् । स्वधया । सु-पर्णः । हव्यम् । भरत् । मनवे । देव-जुष्टम्

4.26.5

भरत् । यदि । विः । अतः । वेविजानः । पथा । उरुणा । मनः-जवाः । असर्जि । तूयम् । ययौ । मधुना । सोम्येन । उत । श्रवः । विविदे । श्येनः । अत्र

4.26.6

ऋजीपी । श्येनः । ददमानः । अंशुम् । परावतः । शकुनः । मन्द्रम् । मदम् । सोमम् । भरत् । ददृहाणः । देव-वान् । दिवः । अमुष्मात् । उत्-तारात् । आदाय

4.26.7

आदाय । श्येनः । अभरत् । सोमम् । सहस्रम् । सवान् । अयुतम् । च । साकम् । अत्र । पुरम्-धिः । अजहात् । अरातीः । मदे । सोमस्य । मूराः । अमूरः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc