ऋग्वेदसंहिता, पदपाठ · अध्याय 4.25
॥12॥.
-र्व्_3:6।13-
(र्व्_4,25)
कः । अद्य । नर्यः । देव-कामः । उशन् । इन्द्रस्य । सख्यम् । जुजोष । कः । वा । महे । अवसे । पार्याय । सम्-इद्धे । अग्नौ । सुत-सोमः । ईटे
कः । ननाम । वचसा । सोम्याय । मनायुः । वा । भवति । वस्ते । उस्राः । कः । इन्द्रस्य । युज्यम् । कः । सखि-त्वम् । कः । भ्रात्रम् । वष्टि । कवये । कः । ऊती
कः । देवानाम् । अवः । अद्य । वृणीते । कः । आदित्यान् । अदितिम् । ज्योतिः । ईटे । कस्य । अश्वि नौ । इन्द्रः । अग्निः । सुतस्य । अंशोः । पिबन्ति । मनसा । अवि-वेनम्
तस्मै । अग्निः । भारतः । शर्म । यंसत् । ज्योक् । पश्यात् । सूर्यम् । उत्-चरन्तम् । यः । इन्द्राय । सुनवाम । इति । आह । नरे । नर्याय । नृ-तमाय । नृणाम्
न । तम् । जिनन्ति । बहवः । न । दभ्राः । उरु । अस्मै । अदितिः । शर्म । यंसत् । प्रियः । सु-कृत् । प्रियः । इन्द्रे । मनायुः । प्रियः । सुप्र-अवीः । प्रियः । अस्य । सोमी
॥13॥.
-र्व्_3:6।14-
सुप्र-अव्यः । प्राशुषाट् । एषः । वीरः । सुस्वेः । पक्तिम् । कृणुते । केवला । इन्द्रः । न । असुस्वेः । अपिः । न । सखा । न । जामिः । दुःप्र-अव्यः । अव-हन्ता । इत् । अवाचः
न । रेवता । पणिना । सख्यम् । इन्द्रः । असुन्वता । सुत-पाः । सम् । गृणीते । आ । अस्य । वेदः । खिदति । हन्ति । नग्नम् । वि । सुस्वये । पक्तये । केवलः । भूत्
इन्द्रम् । परे । अवरे । मध्यमासः । इन्द्रम् । यान्तः । अव-सितासः । इन्द्रम् । इन्द्रम् । क्षियन्तः । उत । युध्यमानाः । इन्द्रम् । नरः । वाजयन्तः । हवन्ते
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0