ऋग्वेदसंहिता, पदपाठ · अध्याय 4.24
॥10॥.
-र्व्_3:6।11-
(र्व्_4,24)
का । सु-स्तुतिः । शवसः । सूनुम् । इन्द्रम् । अर्वाचीनम् । राधसे । आ । ववर्तत् । ददिः । हि । वीरः । गृणते । वसूनि । सः । गो--पतिः । निः-सिधाम् । नः । जनासः
सः । वृत्र-हत्ये । हव्यः । सः । ईड्यः । सः । सु-स्तुतः । इन्द्रः । सत्य-राधाः । सः । यामन् । आ । मघ-वा । मर्त्याय । ब्रह्मण्यते । सुष्वये । वर् इवः । धात्
तम् । इत् । नरः । वि । ह्वयन्ते । सम्-ईके । रिरिक्वअंसः । तन्वः । कृण्वत । त्राम् । मिथः । यत् । त्यागम् । उभ्यासः । अग्मन् । नरः । तोकस्य । तनयस्य । सातौ
क्रतुअन्ति । क्षितयः । योगे । उग्र । आशुषाणासः । मिथः । अर्ण-सातौ । सम् । यत् । विशः । अववृत्रन्त । युध्माः । आत् । इत् । नेमे । इन्द्रयन्ते । अभीके
आत् । इत् । ह । नेमे । इन्द्रियम् । यजन्ते । आत् । इत् । पक्तिः । पुरोळाशम् । रिरिच्यात् । आत् । इत् । सोमः । वि । पपृच्यात् । असुस्वीन् । आत् । इत् । जुजोष । वृषभम् । यजध्यै
॥11॥.
-र्व्_3:6।12-
कृणोति । अस्मै । वरिवः । यः । इत्था । इन्द्राय । सोमम् । उशते । सुनोति । सध्रीचीनेन । मनसा । अवि-वेनम् । तम् । इत् । सखायम् । कृणुते । समत्-सु
यः । इन्द्राय । सुनवत् । सोमम् । अद्य । पचात् । पक्तीः । उत । भृज्जाति । धानाः । प्रति । मनायोः । उचथानि । हर्यन् । तस्मिन् । दधत् । वृषणम् । शुष्मम् । इन्द्रः
यदा । स-मर्यम् । वि । अचेत् । ऋघावा । दीर्घम् । यत् । आजिम् । अभि । अख्यत् । अर्यः । अचिक्रदत् । वृषणम् । पत्नी । अच्छ । दुरोणे । आ । नि-शितम् । सोमसुत्-भिः
भूयसा । वस्नम् । अचरत् । कनीयः । अवि-क्रीतः । अकानिषम् । पुनः । यन् । सः । भूयसा । कनीयः । न । अरिरेचीत् । दीनाः । दक्षाः । वि । दुहन्ति । प्र । वाणम्
कः । इमम् । दश-भिः । मम । इन्द्रम् । क्रीणाति । धेनु-भिः । यदा । वृत्राणि । जङ्घनत् । अथ । एनम् । मे । पुनः । ददत्
नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरितिपीपेः । अकारि । ते । हरि-वः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदासाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0