भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.23

4.23.1

॥8॥.
-र्व्_3:6।9-
(र्व्_4,23)
कथा । महाम् । अवृधत् । कस्य । होतुः । यज्ञम् । जुषाणः । अभि । सोमम् । ऊधः । पिबन् । उशानः । जुषमाणः । अन्धः । ववक्षे । ऋष्वः । शुचते । धनाय

4.23.2

कः । अस्य । वीरः । सध-मादम् । आप । सम् । आनंश । सुमति-भिः । कः । अस्य । कत् । अस्य । चित्रम् । चिकिते । कत् । ऊती । वृधे । भुवत् । शशमानस्य । यज्योः

4.23.3

कथा । शृणोति । हूयमानम् । इन्द्रः । कथा । शृण्वन् । अवसाम् । अस्य । वेद । काः । अस्य । पूर्वीः । उप-मातयः । ह । कथा । एनम् । आहुः । पपुरिम् । जरित्रे

4.23.4

कथा । स-बाधः । शशमानः । अस्य । नशत् । अभि । द्रविणम् । दीध्यानः । देवः । भवत् । नवेदाः । मे । ऋतानाम् । नमः । जगृभ्वान् । अभि । यत् । जुजोषत्

4.23.5

कथा । कत् । अस्याः । उषसः । वि-उष्टौ । देवः । मर्तस्य । सख्यम् । जुजोष । कथा । कत् । अस्य । सख्यम् । सखि-भ्यः । ये । अस्मिन् । कामम् । सु-युजम् । ततस्रे

4.23.6

॥9॥.
-र्व्_3:6।10-
किम् । आत् । अमत्रम् । सख्यम् । सखि-भ्यः । कदा । नु । ते । भ्रात्रम् । प्र । ब्रवाम । श्रिये । सु-दृशः । वपुः । अस्य । सर्गाः । स्वः । न । चित्र-तमम् । इषे । आ । गोः

4.23.7

दुहम् । जिघांसम् । ध्वरसम् । अनिन्द्राम् । तेतिक्ते । तिग्मा । तुजसे । अनीका । ऋणा । चित् । यत्र । ऋण-याः । नः । उग्रः । दूरे । अज्ञाताः । उषसः । बबाधे

4.23.8

ऋतस्य । हि । शुरु-धः । सन्ति । पूर्वीः । ऋतस्य । धीतिः । वृजिनानि । हन्ति । ऋतस्य । श्लोकः । बधिरा । ततर्द । कर्णा । बुधानः । शुचमानः । आयोः

4.23.9

ऋतस्य । दृळ्हा । धरुणानि । सन्ति । पुरूणि । चन्द्रा । वपुषे । वपूंषि । ऋतेन । दीर्घम् । इषणन्त । पृक्षः । ऋतेन । गावः । ऋतम् । आ । विवेशुः

4.23.10

ऋतम् । येमानः । ऋतम् । इत् । वनोति । ऋतस्य । शुष्मः । तुर-याः । ओं इति । गव्युः । ऋताय । पृथ्वी इति । बहुलेइति । गभीरे इति । ऋताय । धेनू इति । परमे इति । दुहातेइति

4.23.11

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरितिपीपेः । अकारि । ते । हरि-वः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदासाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc