ऋग्वेदसंहिता, पदपाठ · अध्याय 4.22
॥6॥.
-र्व्_3:6।7-
(र्व्_4,22)
यत् । नः । इन्द्रः । जुजुषे । यत् । च । वष्टि । तत् । नः । महान् । करति । शुष्मी । आ । चित् । ब्रह्म । स्तोमम् । मघ-वा । सोमम् । उक्था । यः । अश्मानम् । शवसा । बिभ्रत् । एति
वृषा । वृषन्धिम् । चतुः-अश्रिम् । अस्यन् । उग्रः । बाहु-भ्याम् । नृ-तमः । शची-वान् । श्रिये । परुष्णीम् । उषमाणः । ऊर्णाम् । यस्याः । पर्वाणि । सख्याय । विव्ये
यः । देवः । देव-तमः । जायमानः । महः । वाजेभिः । महत्-भिः । च । शुष्मैः । दधानः । वज्रम् । बाह्वोः । उशन्तम् । द्याम् । अमेन । रेजयत् । प्र । भूम
विश्वा । रोधांसि । प्र-वतः । च । पूर्वीः । द्यौः । ऋष्वात् । जनिमन् । रेजत । क्षाः । आ । मातरा । भरति । शुष्मी । आ । गोः । नृ-वत् । परि-ज्मन् । नोनुवन्त । वाताः
ता । तु । ते । इन्द्र । महतः । महानि । विश्वेषु । इत् । सवनेषु । प्र-वाच्या । यत् । शूर । धृष्णो इति । धृषता । दधृष्वान् । अहिम् । वज्रेण । शवसा । अविवेषीः
॥7॥.
-र्व्_3:6।8-
ता । तु । ते । सत्या । तुवि-नृम्ण । विश्वा । प्र । धेनवः । सिस्रते । वृष्णः । ऊध्नः । अध । ह । त्वत् । वृष-मनः । भियानाः । प्र । सिन्धवः । जवसा । चक्रमन्त
अत्र । अह । ते । हरि-वः । ताः । ओं इति । देवीः । अवः-भिः । इन्द्र । स्तवन्त । स्वसारः । यत् । सीम् । अनु । प्र । मुचः । बद्बधानाः । दीर्घाम् । अनु । प्र-सितिम् । स्यन्दयध्यै
पिपीळे । अंशुः । मद्यः । न । सिन्धुः । आ । त्वा । शमी । शशमानस्य । शक्तिः । अस्मद्र्यक् । शुशुमानस्य । यम्याः । आशुः । न । रश्मिम् । तुवि-ओजसम् । गोः
अस्मे इति । वर्षिष्ठा । कृणुहि । ज्येष्ठा । नृम्णानि । सत्रा । सहुरे । सहांसि । अस्मभ्यम् । वृत्रा । सु-हनानि । रन्धि । जहि । वधः । वनुषः । मर्त्यस्य
अस्माकम् । इत् । सु । शृणुहि । त्वम् । इन्द्र । अस्मभ्यम् । चित्रान् । उप । माहि । वाजान् । अस्मभ्यम् । विश्वाः । इषणः । पुरम्-धीः । अस्माकम् । सु । मघ-वन् । बोधि । गोदाः
नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरितिपीपेः । अकारि । ते । हरि-वः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदासाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0