ऋग्वेदसंहिता, पदपाठ · अध्याय 4.21
॥4॥.
-र्व्_3:6।5-
(र्व्_4,21)
आ । यातु । इन्द्रः । अवसे । उप । नः । इह । स्तुतः । सध-मात् । अस्तु । शूरः । ववृधानः । तविषीः । यस्य । पूर्वीः । द्यौः । न । क्षत्रम् । अभि-भूति । पुष्यात्
तस्य । इत् । इह । स्तवथ । वृष्ण्यानि । तुवि-द्युम्नस्य । तुवि-राधसः । नॄन् । यस्य । क्रतुः । विदथ्यः । न । सम्-राट् । सह्वान् । तरुत्रः । अभि । अस्ति । कृष्टीः
आ । यातु । इन्द्रः । दिवः । आ । पृथिव्याः । मक्षु । समुद्रात् । उत । वा । पुरीषात् । स्वः-नरात् । अवसे । नः । मरुत्वान् । परावतः । वा । सदनात् । ऋतस्य
स्थूरस्य । रायः । बृहतः । यः । ईशे । तम् । ओं इति । स्तवाम । विदथेषु । इन्द्रम् । यः । वायुना । जयति । गो--मतीषु । प्र । धृष्णु-या । नयति । वस्यः । अच्छ
उप । यः । नमः । नमसि । स्तभायन् । इयर्ति । वाचम् । जनयन् । यजध्यै । ऋञ्जसानः । पुरु-वारः । उक्थैः । आ । इन्द्रम् । कृण्वीत । सदनेषु । होता
॥5॥.
-र्व्_3:6।6-
धिषा । यदि । धिषण्यन्तः । सरण्यान् । सदन्तः । अद्रिम् । औशिजस्य । गोहे । आ । दुरोषाः । पाश्त्यस्य । होता । यः । नः । महान् । सम्-वरणेषु । वह्निः
सत्रा । यत् । इम् । भार्वरस्य । वृष्णः । सिसक्ति । शुष्मः । स्तुवते । भराय । गुहा । यत् । ईम् । औशिजस्य । गोहे । प्र । यत् । धिये । प्र । अयसे । मदाय
वि । यत् । वरांसि । पर्वतस्य । वृण्वे । पयः-भिः । जिन्वे । अपाम् । जवांसि । विदत् । गौरस्य । गवयस्य । गोहे । यदि । वाजाय । सु-ध्यः । वहन्ति
भद्रा । ते । हस्ता । सु-कृता । उत । पाणी इति । प्र-यन्तारा । स्तुवते । राधः । इन्द्र । का । ते । नि-सत्तिः । किम् । ओं इति । नः । ममत्सि । किम् । न । उत्-उत् । ओं इति । हर्षसे । दातवै । ओं इति
एव । वस्वः । इन्द्रः । सत्यः । सम्-राट् । हन्ता । वृत्रम् । वरिवः । पूरवे । करितिकः । पुरु-स्तुत । क्रत्वा । नः । शग्धि । रायः । भक्षीय । ते । अवसः । दैव्यस्य
नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरितिपीपेः । अकारि । ते । हरि-वः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदासाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0