भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.20

4.20.1

॥2॥.
-र्व्_3:6।3-
(र्व्_4,20)
आ । नः । इन्द्रः । दूरात् । आ । नः । आसात् । अभिष्टि-कृत् । अवसे । यासत् । उग्रः । ओजिष्ठेभिः । नृ-पतिः । वज्र-बाहुः । सम्-गे । समत्-सु । पृतन्यून्

4.20.2

आ । नः । इन्द्रः । हरि-भिः । यातु । अच्छ । अर्वाचीनः । अवसे । राधसे । च । तिष्ठाति । वज्री । मघ-वा । वि-रप्शी । इमम् । यज्ञम् । अनु । नः । वाज-सातौ

4.20.3

इमम् । यज्ञम् । त्वम् । अस्माकम् । इन्द्र । पुरः । दधत् । सनिष्यसि । क्रतुम् । नः । श्वघ्नी-इव । वज्रिन् । सनये । धनानाम् । त्वया । वयम् । अर्यः । आजिम् । जयेम

4.20.4

उशन् । ओं इति । सु । णः । सु-मनाः । उपाके । सोमस्य । नु । सु-सुतस्य । स्वधावः । पाः । इन्द्र । प्रति-भृतस्य । मध्वः । सम् । अन्धसा । ममदः । पृष्ठ्येन

4.20.5

वि । यः । ररप्शे । ऋषि-भिः । नवेभिः । वृक्षः । न । पक्वः । सृण्यः । न । जेता । मर्यः । न । योषाम् । अभि । मन्यमानः । अच्छ । विवक्मि । पुरु-हूतम् । इन्द्रम्

4.20.6

॥3॥.
-र्व्_3:6।4-
गिरिः । न । यः । स्व-तवान् । ऋष्वः । इन्द्रः । सनात् । एव । सहसे । जातः । उग्रः । आदर्ता । वज्रम् । स्थविरम् । न । भीमः । उद्नाइव । कोशम् । वसुना । नि-ऋष्टम्

4.20.7

न । यस्य । वर्ता । जनुषा । नु । अस्ति । न । राधसः । आमरीता । मघस्य । उत्-ववृषाणः । तविषी-वः । उग्र । अस्मभ्यम् । दद्धि । पुरु-हूत । रायः

4.20.8

ईक्षे । रायः । क्षयस्य । चर्षणीनाम् । उत । व्रजम् । अप-वर्ता । असि । गोनाम् । शिक्षानरः । सम्-इथेषु । प्रहावान् । वस्वः । राशिम् । अभि-नेता । असि । भूरिम्

4.20.9

कया । तत् । शृण्वे । शच्या । शचिष्ठः । यया । कृणोति । मुहु । का । चित् । दृष्वः । पुरु । दाशुषे । वि-चयिष्ठः । अंहः । अथ । दधाति । द्रविणम् । जरित्रे

4.20.10

मा । नः । मर्धीः । आ । भर । दद्धि । तत् । नः । प्र । दाशुषे । दातवे । भूरि । यत् । ते । नव्ये । देष्णे । शस्ते । अस्मिन् । ते । उक्थे । प्र । ब्रवाम । वयम् । इन्द्र । स्तुवन्तः

4.20.11

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरितिपीपेः । अकारि । ते । हरि-वः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदासाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc