ऋग्वेदसंहिता, पदपाठ · अध्याय 4.19
॥26॥.
-र्व्_3:6।1-
(र्व्_4,19)
एव । त्वाम् । इन्द्र । वज्रिन् । अत्र । विश्वे । देवासः । सु-हवासः । ऊमाः । महाम् । उभे इति । रोदसी इति । वृद्धम् । ऋष्वम् । निः । एकम् । इत् । गृणते । वृत्र-हत्ये
अव । असृजन्त । जिव्रयः । न । देवाः । भुवः । सम्-राट् । इन्द्र । सत्य-योनि ः । अहन् । अहिम् । परि-शयानम् । अर्णः । प्र । वर्तनीः । अरदः । विश्व-धेनाः
अतृप्णुवन्तम् । वि-यतम् । अबुध्यम् । अबुध्यमानम् । सुसुपाणम् । इन्द्र । सप्त । प्रति । प्र-वतः । आशयानम् । अहिम् । वज्रेण । वि । रिणाः । अपर्वन्
अक्षोदयत् । शवसा । क्षाम । बुध्नम् । वाः । न । वातः । तविषीभिः । इन्द्रः । दृळ्हानि । औभ्नात् । उशमानः । ओजः । अव । अभिनत् । ककुभः । पर्वतानाम्
अभि । प्र । दद्रुः । जनयः । न । गर्भम् । रथाः-इव । प्र । ययुः । साकम् । अद्रयः । अतर्पयः । वि-सृतः । उब्जः । ऊर्मीन् । त्वम् । वृतान् । अरिणाः । इन्द्र । सिन्धून्
॥1॥.
-र्व्_3:6।2-
त्वम् । महीम् । अवनिम् । विश्व-धेनाम् । तुर्वीतये । वय्याय । क्षरन्तीम् । अरमयः । नमसा । एजत् । अर्णः । सु-तरणान् । अकृणोः । इन्द्र । सिन्धून्
प्र । अग्रुवः । नभन्वः । न । वक्वअः । ध्वस्राः । अपिन्वत् । युवतीः । ऋत-ज्ञाः । धन्वानि । अज्रान् । अपृणक् । तृषाणान् । अधोक् । इन्द्रः । स्तर्यः । दम्-सुपत्नीः
पूर्वीः । उषसः । शरदः । च । गूर्ताः । वृत्रम् । जघन्वान् । असृजत् । वि । सिन्धून् । परि-स्थिताः । अतृणत् । बद्बधानाः । सीराः । इन्द्रः । स्रवितवे । पृथिव्या
वम्रीभिः । पुत्रम् । अग्रुवः । अदानम् । नि-वेशनात् । हरि-वः । आ । जभर्थ । व् इ । अन्धः । अख्यत् । अहिम् । आददानः । निः । भूत् । उख-छित् । सम् । अरन्त । पर्व
प्र । ते । पूर्वाणि । करणानि । विप्र । आविद्वान् । आह । विदुषे । करांसि । यथायथा । वृष्ण्यानि । स्व-गूर्ता । अपांसि । राजन् । नर्या । अविवेषीः
नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरितिपीपेः । अकारि । ते । हरि-वः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदासाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0