भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.1

4.1.1

॥11॥.
मन्दल 4
-र्व्_3:4।12-
(र्व्_4,1)
त्वाम् । हि । अग्ने । सदम् । इत् । स-मन्यवः । देवासः । देवम् । अरतिम् । नि-एरिरे । इति । क्रत्वा । नि-एरिरे । अमर्त्यम् । यजत । मर्त्येषु । आ । देवम् । आदेवम् । जनत । प्र-चेतसम् । विश्वम् । आदेवम् । जनत । प्र-चेतसम्

4.1.2

सः । भ्रातरम् । वरुणम् । अग्ने । आ । ववृत्स्व । देवान् । अच्छ । सु-मती । यज्ञ-वनसम् । ज्येष्ठम् । यज्ञ-वनसम् । ऋत-वानम् । आदित्यम् । चर्षणि-धृतम् । राजानम् । चर्षणि-धृतम्

4.1.3

सखे । सखायम् । अभि । आ । ववृत्स्व । आशुम् । न । चक्रम् । रथ्याइव । रंह्या । अस्मभ्यम् । दस्म । रंह्या । अग्ने । मृळीकम् । वरुणे । सचा । विदः । मरुत्-सु । विश्व-भानुषु । तोकाय । तुजे । शुशुचान । शम् । कृधि । अस्मभ्यम् । दस्म । शम् । कृधि

4.1.4

त्वम् । नः । अग्ने । वरुणस्य । विद्वान् । देवस्य । हेळः । अव । यासिसीष्ठाः । यजिष्ठः । वह्नि-तमः । शोशुचानः । विश्वा । द्वेषांसि । प्र मुमुग्धि । अस्मत्

4.1.5

सः । त्वम् । नः । अग्ने । अवमः । भव । ऊती । नेदिष्ठः । अस्याः । उषसः । वि-उष्टौ । अव । यक्ष्व । नः । वरुणम् । रराणः । वीहि । मृळीकम् । सु-हवः । नः । एधि

4.1.6

॥12॥.
-र्व्_3:4।13-
अस्य । श्रेष्ठा । सु-भगस्य । सम्-दृक् । देवस्य । चित्र-तमा । मर्त्येषु । शुचि । घृतम् । न । तप्तम् । अघ्न्यायाः । स्पार्हा । देवस्य । मंहनाइव । धेनोः

4.1.7

त्रिः । अस्य । ता । परमा । सन्ति । सत्या । स्पार्हा । देवस्य । जनिमानि । अग्नेः । अनन्ते । अन्तरिति । परि-वीतः । आ । अगात् । शुचिः । शुक्रः । अर्यः । रोरुचानः

4.1.8

सः । दूतः । विश्वा । इत् । अभि । वष्टि । सद्म । होता । हिरण्य-रथः । रम्-सुजिह्वः । रोहित्-अश्वः । वपुष्यः । विभावा । सदा । रण्वः । पितुमती-इव । संसत्

4.1.9

सः । चेतयत् । मनुषः । यज्ञ-बन्धुः । प्र । तम् । मह्या । रशनया । नयन्ति । सः । क्षेति । अस्य । दुर्यासु । साधन् । देवः । मर्तस्य । सधनि-त्वम् । आप

4.1.10

सः । तु । नः । अग्निः । नयतु । प्र-जानन् । अच्छ । रत्नम् । देव-भक्तम् । यत् । अस्य । धिया । यत् । विश्वे । अमृताः । अकृण्वन् । द्यौः । पिता । जनिता । सत्यम् । उक्षन्

4.1.11

॥13॥.
-र्व्_3:4।14-
सः । जायत । प्रथमः । पस्त्यासु । महः । बुध्ने । रजसः । अस्य । योनौ । अपात् । अशीर्षा । गुहमानः । अन्ता । आयोयुवानः । वृषभस्य । नीळे

4.1.12

प्र । शर्धः । आर्त । प्रथमम् । वि-पन्या । ऋतस्य । योना । वृषभस्य । नीळे । स्पार्हः । युवा । वपुष्यः । विभावा । सप्त । प्रियासः । अजनयन्त । वृष्णे

4.1.13

अस्माकम् । अत्र । पितरः । मनुष्याः । अभि । प्र । सेदुः । ऋतम् । आशुषाणाः । अश्म-व्रजाः । सु-दुघा । वव्रे । अन्तः । उत् । उस्राः । आजन् । उषसः । हुवानाः

4.1.14

ते । मर्मृजत् अ । ददृ-वांसः । अद्रिम् । तत् । एषाम् । अन्ये । अभितः । वि । वोचन् । पश्व-यन्त्रासः । अभि । कारम् । अर्चन् । विदन्त । ज्योतिः । चकृपन्त । धीभिः

4.1.15

ते । गव्यता । मनसा । दृध्रम् । उब्धम् । गाः । येमानम् । परि । सन्तम् । अद्रिम् । दृळ्हम् । नरः । वचसा । दैव्येन । व्रजम् । गो--मन्तम् । उशिजः । वि । वव्रुः

4.1.16

॥14॥.
-र्व्_3:4।15-
ते । मन्वत । प्रथमम् । नाम । धेनोः । त्रिः । सप्त । मातुः । परमाणि । विन्दन् । तत् । जानतीः । अभि । अनूषत । व्राः । आविः । भुवत् । अरुणीः । यशसा । गोः

4.1.17

नेशत् । तमः । दुधितम् । रोचत । द्यौः । उत् । देव्याः । उषसः । भानुः । अर्त । आ । सूर्यः । बृहतः । तिष्ठत् । अज्रान् । ऋजु । मर्तेषु । वृजिन । च । पश्यन्

4.1.18

आत् । इत् । पश्चा । बुबुधानाः । वि । अख्यन् । आत् । इत् । रत्नम् । धारयन्त । द्यु-भक्तम् । विश्वे । विश्वासु । दुर्यासु । देवाः । मित्र । धिये । वरुण । सत्यम् । अस्तु

4.1.19

अच्छ । वोचेय । शुशुचानम् । अग्निम् । होतारम् । विश्व-भरसम् । यजिष्ठम् । शुचि । ऊधः । अतृणत् । न । गवाम् । अन्धः । न । पूतम् । परि-सिक्तम् । अंशोः

4.1.20

विश्वेषाम् । अदितिः । यज्ञियानाम् । विश्वेषाम् । अतिथिः । मानुषाणाम् । अग्निः । देवानाम् । अवः । आवृणानः । सु-मृळीकः । भवतु । जात-वेदाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc