ऋग्वेदसंहिता, पदपाठ · अध्याय 4.18
॥24॥.
-र्व्_3:5।25-
(र्व्_4,18)
अयम् । पन्थाः । अनु-वित्तः । पुराणः । यतः । देवाः । उत्-अजायन्त । विश्वे । अतः । चित् । आ । जनिषीष्ट । प्र-वृद्धः । मा । मातरम् । अमुया । पत्तवे । करितिकः
न । अहम् । अतः । निः । अय । दुः-गहा । एतत् । तिरश्चता । पार्श्वात् । निः । गमानि । बहूनि । मे । अकृता । कर्त्वानि । युध्यै । त्वेन । सम् । त्वेन । पृच्छै
परायतीम् । मातरम् । अनु । अचष्ट । न । न । अनु । गानि । अनु । नु । गमानि । त्वष्टुः । गृहे । अपिबत् । सोमम् । इन्द्रः । शत-धन्यम् । चम्वोः । सुतस्य
किम् । सः । ऋधक् । कृणवत् । यम् । सहस्रम् । मासः । जभार । शरदः । च । पूर्वीः । नही । नु । आस्य । प्रति-मानम् । अस्ति । अन्तः । जतेषु । उत । ये । जनि-त्वाः
अवद्यम्-इव । मन्यमाना । गुहा । अकः । इन्द्रम् । माता । वीर्येण । नि-ऋष्तम् । अथ । उत् । अस्थात् । स्वयम् । अत्कम् । वसानः । आ । रोदसी इति । अपृणात् । जायमानः
॥25॥.
-र्व्_3:5।26-
एताः । अर्षन्ति । अललाभवन्तीः । ऋतवरीः-इव । सम्-क्रोशमानाः । एताः । वि । पृच्छ । किम् । इदम् । भनन्ति । कम् । आपः । अद्रिम् । परि-धिम् । रुजन्ति
किम् । ओं इति । स्वित् । अस्मै । नि-विदः । भनन्त । इन्द्रस्य । अवद्यम् । दिधिषन्ते । आपः । मम । एतान् । पुत्रः । महता । वधेन । वृत्रम् । जघन्वान् । असृजत् । वि । सिन्धून्
ममत् । चन । त्वा । युवतिः । पराआस । ममत् । चन । त्वा । कुषवा । जगार । ममत् । चित् । आपः । शिशवे । ममृड्युः । ममत् । चित् । इन्द्रः । सहसा । उत् । अतिष्ठत्
ममत् । चन । ते । मघ-वन् । वि-अंसः । नि-विविध्वान् । अप । हनूइति । जघान । अध । नि-विद्धः । उत्-तरः । बभूवान् । शिरः । दासस्य । सम् । पिणक् । वधेन
गृष्टिः । सासूव । स्थविरम् । तवागाम् । अनाधृष्यम् । वृषभम् । तुम्रम् । इन्द्रम् । अरीळ्हम् । वत्सम् । चरथाय । माता । स्वयम् । गातुम् । तन्वे । इच्छमानम्
उत । माता । महिषम् । अनु । अवेनत् । अमी इति । त्वा । जहति । पुत्र । देवाः । अथ । अब्रवीत् । वृत्रम् । इन्द्रः । हनिष्यन् । सखे । विष्णो इति । वि-तरम् । वि । क्रमस्व
कः । ते । मातरम् । विधवाम् । अचक्रत् । शयुम् । कः । त्वाम् । अजिघांसत् । चरन्तम् । कः । ते । देवः । अधि । मार्डीके । आसीत् । यत् । प्र । अक्षिणाः । पितरम् । पाद-गृह्य
अवर्त्या । शुनः । आन्त्राणि । पेचे । न । देवेषु । विविदे । मर्डितारम् । अपश्यम् । जायाम् । अमहीयमानाम् । अध । मे । श्येनः । मधु । आ । जभार
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0