भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.17

4.17.1

॥20॥.
-र्व्_3:5।21-
(र्व्_4,17)
त्वम् । महान् । इन्द्र । तुभ्यम् । ह । क्षाः । अनु । क्षत्रम् । मंहना । मन्यत । द्यौः । त्वम् । वृत्रम् । शवसा । जघन्वान् । सृजः । सिन्धून् । अहिना । जग्रसानान्

4.17.2

तव । त्विषः । जनिमन् । रेजत । द्यौः । रेजत् । भूमिः । भियसा । स्वस्य । मन्योः । ऋघायन्त । सु-भ्वः । पर्वतासः । आर्दन् । धन्वानि । सरयन्ते । आपः

4.17.3

भिनत् । गिरिम् । शवसा । वज्रम् । इष्णन् । आविः-कृण्वानः । सहसानः । ओजः । वधीत् । वृत्रम् । वज्रेण । मन्दसानः । सरन् । आपः । जवसा । हत-वृष्णीः

4.17.4

सु-वीरः । ते । जनिता । मन्यत । द्यौः । इन्द्रस्य । कर्ता । स्वपः-तमः । भूत् । यः । ईम् । जजान । स्वर्यम् । सु-वज्रम् । अनप-च्युतम् । सदसः । न । भूम

4.17.5

यः । एकः । इत् । च्यावयति । प्र । भूमा । राजा । कृष्टीनाम् । पुरु-हूतः । इन्द्रः । सत्यम् । एनम् । अनु । विश्वे । मदन्ति । रातिम् । देवस्य । गृणतः । मघोनः

4.17.6

॥21॥.
-र्व्_3:5।22-
सत्रा । सोमाः । अभवन् । अस्य । विश्वे । सत्रा । मदासः । बृहतः । मदिष्ठाः । सत्रा । अभवः । वसु-पतिः । वसूनाम् । दत्रे । विश्वाः । अधिथाः । इन्द्र । कृष्टीः

4.17.7

त्वम् । अध । प्रथमम् । जायमानः । अमे । विश्वाः । अधिथाः । इन्द्र । कृष्टीः । त्वम् । प्रति । प्र-वतः । आशयानम् । अहिम् । वज्रेण । मघ-वन् । वि । वृश्चः

4.17.8

सत्राहनन् । दधृषिम् । तुम्रम् । इन्द्रम् । महाम् । अपारम् । वृषभम् । सु-वज्रम् । हन्ता । यः । वृत्रम् । सनिता । उत । वाजम् । दाता । मघानि । मघ-वा । सु-राधाः

4.17.9

अयम् । वृतः । चातयते । सम्-ईचीः । यः । आजिषु । मघ-वा । शृण्वे । एकः । अयम् । वाजम् । भरति । यम् । सनोति । अस्य । प्रियासः । सख्ये । स्याम

4.17.10

अयम् । शृण्वे । अध । जयन् । उत । घ्नन् । अयम् । उत । प्र । कृणुते । युधा । गाः । यदा । सत्यम् । कृणुते । मन्युम् । इन्द्रः । विश्वम् । दृळ्हम् । भयते । एजत् । अस्मात्

4.17.11

॥22॥.
-र्व्_3:5।23-
सम् । इन्द्रः । गाः । अजयत् । सम् । हिरण्या । सम् । अश्विया । मघ-वा । यः । ह । पूर्वीः । एभिः । नृ-भिः । नृ-तमः । अस्य । शाकैः । रायः । वि-भक्ता । सम्-भरः । च । वस्वः

4.17.12

कियत् । स्वित् । इन्द्रः । अधि । एति । मातुः । कियत् । पितुः । जनितुः । यः । जजान । यः । अस्य । शुष्मम् । मुहुकैः । इयर्ति । वातः । न । जूतः । स्तनयत्-भिः । अभ्रैः

4.17.13

क्षियन्तम् । त्वम् । अक्षियन्तम् । कृणोति । इयर्ति । रेणुम् । मघ-वा । सम्-ओहम् । वि--भञ्जनुः । अशनिमान्-इव । द्यौः । उत । स्तोतारम् । मघ-वा । वसौ । धात्

4.17.14

अयम् । चक्रम् । इषणत् । सूर्यस्य । नि । एतशम् । रीरमत् । ससृमाणम् । आ । कृष्णः । ईम् । जुहुराणः । जिघर्ति । त्वचः । बुध्ने । रजसः । अस्य । योनौ

4.17.15

असिक्नयाम् । यजमानः । न । होता

4.17.16

॥23॥.
-र्व्_3:5।24-
गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्व-यन्तः । वृषणम् । वाजयन्तः । जनि-यन्तः । जनि-दाम् । अक्षित-ऊतिम् । आ । च्यवयामः । अवते । न कोशम्

4.17.17

त्राता । नः । बोधि । ददृशानः । आपिः । अभि-ख्याता । मर्डिता । सोम्यानाम् । सखा । पिता । पितृ-तमः । पितॄणाम् । कर्ता । ईम् । ओं इति । लोकम् । उशते । वयः-धाः

4.17.18

सखि-यताम् । अविता । बोधि । सखा । गृणानः । इन्द्र । स्तुवते । वयः । धाः । वयम् । हि । आ । ते । चकृम । स-बाधः । आभिः । शमीभिः । महयन्तः । इन्द्र

4.17.19

स्तुतः । इन्द्रः । मघ-वा । यत् । ह । वृत्रा । भूरीणि । एकः । अप्रतीनि । हन्ति । अस्य । प्रियः । जरिता । यस्य । शर्मन् । नकिः । देवाः । वारयन्ते । न । मर्ताः

4.17.20

एव । नः । इन्द्रः । मघ-वा । वि-रप्शी । करत् । सत्या । चर्षणि-धृत् । अनवार् । त्वम् । राजा । जनुषाम् । धेहि । अस्मे इति । अधि । श्रवः । माहिनम् । यत् । जरित्रे

4.17.21

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरितिपीपेः । अकारि । ते । हरि-वः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदासाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc