भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.16

4.16.1

॥16॥.
-र्व्_3:5।17-
(र्व्_4,16)
आ । सत्यः । यातु । मघ-वान् । ऋजीषी । द्रवन्तु । अस्य । हरयः । उप । नः । तस्मै । इत् । अन्धः । सुसुम । सु-दक्षम् । इह । अभि-पित्वम् । करते । गृणानः

4.16.2

अव । स्य । शूर । अध्वनः । न । अन्ते । अस्मिन् । नः । अद्य । सवने । मन्दध्यै । शंसाति । उक्थम् । उशनाइव । वेधाः । चिकितुषे । असुर्याय । मन्म

4.16.3

कविः । न । निण्यम् । विदथानि । साधन् । वृषा । यत् । सेकम् । वि-पिपानः । अर्चात् । दिवः । इत्था । जीजनत् । सप्त । कारून् । अह्ना । चित् । चक्रुः । वयुना । गृणन्तः

4.16.4

स्वः । यत् । वेदि । सु-दृशीकम् । अर्कैः । महि । ज्योतिः । रुरुचुः । यत् । ह । वस्तोः । अन्धा । तमांसि । दुधिता । वि-चक्षे । नृ-भ्यः । चकार । नृ-तमः । अभिष्टौ

4.16.5

ववक्षे । इन्द्रः । अमितम् । ऋजीषी । उभे इति । आ । पप्रौ । रोदसी इति । महि-त्वा । अतः । चित् । अस्य । महिमा । वि । रेचि । अभि । यः । विश्वा । भुवना । बभूव

4.16.6

॥17॥.
-र्व्_3:5।18-
विश्वानि । शक्रः । नर्याणि । विद्वान् । अपः । रिरेच । सखि-भिः । नि-कामैः । अश्मानम् । चित् । ये । बिभिदुः । वचः-भिः । व्रजम् । गो--मन्तम् । उशिजः । वि । वव्रुरितिवव्रुः

4.16.7

अपः । वृत्रम् । वव्रि-वांसम् । परा । अहन् । प्र । आवत् । ते । वज्रम् । पृथिवी । स-चेताः । प्र । अर्णासि । समुद्रियाणि । ऐनोः । पतिः । भवन् । शवसा । शूर । धृष्णो इति

4.16.8

अपः । यत् । अद्रिम् । पुरु-हूत । दर्दः । आविः । भुवत् । सरमा । पूर्व्यम् । ते । सः । नः । नेता । वाजम् । आ । दर्षि । भूरिम् । गोत्रा । रुजन् । अङ्गिरः-भिः । गृणानः

4.16.9

अच्छ । कविम् । नृ-मनः । गाः । अभिष्टौ । स्वः-साता । मघ-वन् । नादमानम् । ऊति-भिः । तम् । इषणः । द्युम्न-हूतौ । नि । मायावान् । अब्रह्मा । दस्युः । अर्त

4.16.10

आ । दस्यु-घ्ना । मनसा । याहि । अस्तम् । भुवत् । ते । कुत्सः । सख्ये । नि-कामः । स्वे । योनौ । नि । सदतम् । स-रूपा । वि । वाम् । चिकित्सत् । ऋत-चित् । ह । नारी

4.16.11

॥18॥.
-र्व्_3:5।19-
यासि । कुत्सेन । स-रथम् । अवस्युः । तोदः । वातस्य । हर्योः । ईशानः । ऋज्रा । वाजम् । न । गध्यम् । युयूषन् । कविः । यत् । अहन् । पार्याय । भूषात्

4.16.12

कुत्साय । शुष्णम् । अशुषम् । नि । बर्हीः । प्र-पित्वे । अह्नः । कुयवम् । सहस्रा । सद्यः । दस्यून् । प्र । मृण । कुत्स्येन । प्र । सूरः । चक्रम् । वृहतात् । अभीके

4.16.13

त्वम् । पिप्रुम् । मृगयम् । शूशु-वांसम् । ऋजिश्वने । वैदथिनाय । रन्धीः । पञ्चाशत् । कृष्णा । नि । वपः । सहस्रा । आत्कम् । न । पुरः । जरिमा । वि । दर्दः

4.16.14

सूरः । उपाके । तन्वम् । दधानः । वि । यत् । ते । चेति । अमृतस्य । वर्पः । मृगः । न । हस्ती । तविषीम् । उषाणः । सिंहः । न । भीमः । आयुधानि । बभ्रत्

4.16.15

इन्द्रम् । कामाः । वसु-यन्तः । अग्मन् । स्वः । मीळ्हे । न । सवने । चकानाः । श्रवस्यवः । शशमानासः । उक्थैः । ओकः । न । रण्वा । सुदृशी-इव । पुष्टिः

4.16.16

॥19॥.
-र्व्_3:5।20-
तम् । इत् । वः । इन्द्रम् । सु-हवम् । हुवेम । यः । ता । चकार । नर्या । पुरूणि । यः । मावते । जरित्रे । गध्यम् । चित् । मक्षु । वाजम् । भरति । स्पार्ह-राधाः

4.16.17

तिग्मा । यत् । अन्तः । अशनिः । पताति । कस्मिन् । चित् । शूर । मुहुके । जनानाम् । घोरा । यत् । अर्य । सम्-ऋतिः । भवाति । अध । स्म । नः । तन्वः । बोधि । गोपाः

4.16.18

भुवः । अविता । वाम-देवस्य । धीनाम् । भुवः । सखा । अवृकः । वाज-सातौ । त्वाम् । अनु । प्र-मतिम् । आ । जगन्म । उरु-शंसः । जरित्रे । विश्वध । स्याः

4.16.19

एभिः । नृ-भिः । इन्द्र । त्वायु-भिः । त्वा । मघवत्-भिः । मघ-वन् । विश्वे । आजौ । द्यावः । न । द्युम्नैः । अभि । सन्तः । अर्यः । क्षपः । मदेम । शरदः । च । पूर्वीः

4.16.20

एव । इत् । इन्द्राय । वृषभाय । वृष्णे । ब्रह्म । अकर्म । भृगवः । न । रथम् । नु । चित् । यथा । नः । सख्या । वि-योषत् । असत् । नः । उग्रः । अविता । तनू-पाः

4.16.21

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरितिपीपेः । अकारि । ते । हरि-वः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदासाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc