ऋग्वेदसंहिता, पदपाठ · अध्याय 4.15
॥14॥.
-र्व्_3:5।15-
(र्व्_4,15)
अग्निः । होता । नः । अध्वरे । वाजी । सन् । परि । नीयते । देवः । देवेषु । यज्ञियः
परि । त्रि-विष्टि । अध्वरम् । याति । अग्निः । रथीः-इव । आ । देवेषु । प्रयः । दधत्
परि । वाज-पतिः । कविः । अग्निः । हव्यानि । अक्रमीत् । दधत् । रत्नानि । दाशुषे
अयम् । यः । सृञ्जये । पुरः । दैव-वाते । सम्-इध्यते । द्यु-मान् । अमित्र-दम्भनः
अस्य । घ । वीरः । ईवतः । अग्नेः । ईशीत । मर्त्यः । तिग्म-जम्भस्य । मीळ्हुषः
॥15॥.
-र्व्_3:5।16-
तम् । अर्वन्तम् । न । सानसिम् । अरुषम् । न । दिवः । शिशुम् । मर्मृज्यन्ते । दिवे--दिवे
बोधत् । यत् । मा । हरि-भ्याम् । कुमारः । साह-देव्यः । अच्छ । न । हूतः । उत् । अरम्
उत । त्या । यजता । हरी इति । कुमारात् । साहदेव्यात् । प्र-यता । सद्यः । आ । ददे
एषः । वाम् । देवौ । अश्विना । कुमारः । साह-देव्यः । दीर्घ-आयुः । अस्तु । सोमकः
तम् । युवम् । देवौ । अश्विना । कुमारम् । साह-देव्यम् । दीर्घ-आयुषम् । कृणोतन
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0