भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.14

4.14.1

॥13॥.
-र्व्_3:5।14-
(र्व्_4,14)
प्रति । अग्निः । उषसः । जात-वेदाः । अख्यत् । देवः । रोचमानाः । महः-भिः । आ । नासत्या । उरु-गाया । रथेन । इमम् । यज्ञम् । उप । नः । यातम् । अच्छ

4.14.2

ऊर्ध्वम् । केतुम् । सविता । देवः । अश्रेत् । ज्योतिः । विश्वस्मै । भुवनाय । कृण्वन् । आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । वि । सूर्यः । रश्मि-भिः । चेकितानः

4.14.3

आवहन्ती । अरुणीः । ज्योतिषा । आ । अगात् । मही । चित्रा । रश्मि-भिः । चेकिताना । प्र-बोधयन्ती । सु-विताय । देवी । उषाः । ईयते । सु-युजा । रथेन

4.14.4

आ । वाम् । वहिष्ठाः । इह । ते । वहन्तु । रथाः । अश्वासः । उषसः । वि-उष्टौ । इमे । हि । वाम् । मधु-पेयाय । सोमाः । अस्मिन् । यज्ञे । वृषणा । मादयेथाम्

4.14.5

अनायतः । अनि-बद्धः । कथा । अयम् । न्यङ् । उत्तानः । अव । पद्यते । न । कया । याति । स्वधया । कः । ददर्श । दिवः । स्कम्भः । सम्-ऋतः । पाति । नाकम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc