ऋग्वेदसंहिता, पदपाठ · अध्याय 4.13
॥12॥.
-र्व्_3:5।13-
(र्व्_4,13)
प्रति । अग्निः । उषसाम् । अग्रम् । अख्यत् । वि-भातीनाम् । सु-मनाः । रत्न-धेयम् । यातम् । अश्विना । सु-कृतः । दुरोणम् । उत् । सूर्यः । ज्योतिषा । देवः । एति
ऊर्ध्वम् । भानुम् । सविता । देवः । अश्रेत् । द्रप्सम् । दविध्वत् । गो--इषः । न । सत्वा । अनु । व्रतम् । वरुणः । यन्ति । मित्रः । यत् । सूर्यम् । दिवि । आरोहयन्ति
यम् । सीम् । अकृण्वन् । तमसे । वि-पृचे । ध्रुव-क्षेमाः । अनव-स्यन्तः । अथर्म् । तम् । सूर्यम् । हरितः । सप्त । यह्वीः । स्पशम् । विश्वस्य । जगतः । वहन्ति
वहिष्टेभिः । वि-हरन् । यासि । तन्तुम् । अव-व्ययन् । असितम् । देव । वस्म । दविध्वतः । रश्मयः । सूर्यस्य । चर्म-इव । अव । अधुः । तमः । अप्-सु । अन्तरिति
अनायतः । अनि-बद्धः । कथा । अयम् । न्यङ् । उत्तानः । अव । पद्यते । न । कया । याति । स्वधया । कः । ददर्श । दिवः । स्कम्भः । सम्-ऋतः । पाति । नाकम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0