ऋग्वेदसंहिता, पदपाठ · अध्याय 4.12
॥11॥.
-र्व्_3:5।12-
(र्व्_4,12)
यः । त्वाम् । अग्ने । इनधते । यत-स्रुक् । त्रिः । ते । अन्नम् । कृणवत् । सस्मिन् । अहन् । सः । सु । द्युम्नैः । अभि । अस्तु । प्र-सक्षत् । तव । क्रत्वा । जात-वेदः । चिकित्वान्
इध्मम् । यः । ते । जभरत् । शश्रमाणः । महः । अग्ने । अनीकम् । आ । सपर्यन् । सः । इधानः । प्रति । दोषाम् । उषसम् । पुष्यन् । रयिम् । सचते । घ्नन् । अमित्रान्
अग्निः । आशे । बृहतः । क्षत्रियस्य । अग्निः । वाजस्य । परमस्य । रायः । दधाति । रत्नम् । विधते । यविष्ठः । वि । आनुषक् । मर्त्याय । स्वधावान्
यत् । चित् । हि । ते । पुरुष-त्रा । यविष्ठ । अचित्ति-भिः । चकृम । कत् । चित् । आगः । कृधि । सु । अस्मान् । अदितेः । अनागान् । वि । एनांसि । शिश्रथः । विष्वक् । अग्ने
महः । चित् । अग्ने । एनसः । अभीके । ऊर्वात् । देवानाम् । उत । मर्त्यानाम् । मा । ते । सखायः । सदम् । इत् । रिषाम । यच्छ । तोकाय । तनयाय । शम् । योः
यथा । ह । त्यत् । वसवः । गौर्यम् । चित् । पदि । सिताम् । अमुञ्चत । यजत्राः । एवो इति । सु । अस्मत् । मुञ्चत । वि । अंहः । प्र । तारि । अग्ने । प्र-तरम् । नः । आयुः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0