भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.11

4.11.1

॥10॥.
-र्व्_3:5।11-
(र्व्_4,11)
भद्रम् । ते । अग्ने । सहसिन् । अनीकम् । उपाके । आ । रोचते । सूर्यस्य । रुशत् । दृशे । ददृशे । नक्त-या । चित् । अरूक्षितम् । दृशे । आ । रूपे । अन्नम्

4.11.2

वि । साहि । अग्ने । गृणते । मनीषाम् । खम् । वेपसा । तुवि-जात । स्तवानः । विश्वेभिः । यत् । ववनः । शुक्र । देवैः । तत् । नः । रास्व । सु-महः । भूरि । मन्म

4.11.3

त्वत् । अग्ने । काव्या । त्वम् । मनीषाः । त्वत् । उक्था । जायन्ते । राध्यानि । त्वत् । एति । द्रविणम् । वीर-पेशाः । इत्थाधिये । दाशुषे । मर्त्याय

4.11.4

त्वत् । वाजी । वाजम्-भरः । वि-हायाः । अभिष्टि-कृत् । जायते । सत्य-शुष्मः । त्वत् । रयिः । देव-जूतः । मयः-भुः । त्वत् । आशुः । जूजु-वान् । अग्ने । अर्वा

4.11.5

त्वाम् । अग्ने । प्रथमम् । देव-यन्तः । देवम् । भर्ता । अमृत । मन्द्र-जिह्वम् । द्वेषः-युतम् । आ । विवासन्ति । धीभिः । दमूनसम् । गृह-पतिम् । अमूरम्

4.11.6

आरे । अस्मत् । अमतिम् । आरे । अंहः । आरे । विश्वाम् । दुः-मतिम् । यत् । नि-पासि । दोषा । शिवः । सहसः । सूनो इति । अग्ने । यम् । देवः । आ । चित् । सचसे । स्वस्ति

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc