भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.10

4.10.1

॥9॥.
-र्व्_3:5।10-
(र्व्_4,10)
अग्ने । तम् । अद्य । अश्वम् । न । स्तोमैः । क्रतुम् । न । भद्रम् । हृदि-स्पृशम् । ऋध्याम । ते । ओहैः

4.10.2

अध । हि । अग्ने । क्रतोः । भद्रस्य । दक्षस्य । साधोः । रथीः । ऋतस्य । बृहतः । बभूथ

4.10.3

एभिः । नः । अर्कैः । भव । नः । अर्वाङ् । स्वः । ण । ज्योतिः । अग्ने । विश्वेभिः । सु-मनाः । अनीकैः

4.10.4

आभिः । ते । अद्य । गीः-भिः । गृणन्तः । अग्ने । दाशेम । प्र । ते । दिवः । न । स्तनयन्ति । शुष्माः

4.10.5

तव । स्वादिष्ठा । अग्ने । सम्-दृष्टिः । इदा । चित् । अह्नः । इदा । चित् । अक्तोः । श्रिये । रुक्मः । न । रोचते । उपाके

4.10.6

घृतम् । न । पूतम् । तनूः । अरेपाः । शुचि । हिरण्यम् । तत् । ते । रुक्मः । न । रोचत । स्वधावः

4.10.7

कृतम् । चित् । हि । स्म । सनेमि । द्वेषः । अग्ने । इनोषि । मर्तात् । इत्था । यजमानात् । ऋत-वः

4.10.8

शिवा । नः । सख्या । सन्तु । भ्रात्रा । अग्ने । देवेषु । युष्मे इति । सा । नः । नाभिः । सदने । सस्मिन् । ऊधम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc