भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.9

4.9.1

॥8॥.
-र्व्_3:5।9-
(र्व्_4,9)
अग्ने । मृळ । महान् । असि । यः । ईम् । आ । देव-युम् । जनम् । इयेथ । बर्हिः । आसदम्

4.9.2

सः । मानुषीषु । दुः-दभः । विक्षु । प्र-अवीः । अमर्त्यः । दूतः । विश्वेषाम् । भुवत्

4.9.3

सः । सद्म । परि । नीयते । होता । मन्द्रः । दिविष्टिषु । उत । पोता । नि । सीदति

4.9.4

उत । ग्नाः । अग्निः । अध्वरे । उतो इति । गृह-पतिः । दमे । उत । ब्रह्मा । नि । सीदति

4.9.5

वेषि । हि । अध्वरि-यताम् । उप-वक्ता । जनानाम् । हव्या । च । मानुषाणाम्

4.9.6

वेषि । इत् । ओं इति । अस्य । दूत्यम् । यस्य । जुजोषः । अध्वरम् । हव्यम् । मर्तस्य । वोळ्हवे

4.9.7

अस्माकम् । जोषि । अध्वरम् । अस्माकम् । यज्ञम् । अङ्गिरः । अस्माकम् । शृणुधि । हवम्

4.9.8

परि । ते । दुः-दभः । रथः । अस्मान् । अश्नोतु । विश्वतः । येन । रक्षसि । दाशुषः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc