ऋग्वेदसंहिता, पदपाठ · अध्याय 3.62
॥8॥.
-र्व्_3:4।9-
(र्व्_3,62)
इमाः । ओं इति । वाम् । भृमयः । मन्यमानाः । युवावते । न । तुज्याः । अभूवन् । क्व । त्यत् । इन्द्रावरुणा । यशः । वाम् । येन । स्म । सिनम् । भरथः । सखि-भ्यः
अयम् । ओं इति । वाम् । पुरु-तमः । रयि-यन् । शश्वत्-तमम् । अवसे । जोहवीति । स-जोषौ । इन्द्रावरुणा । मरुत्-भिः । दिवा । पृथिव्या । शृणुतम् । हवम् । मे
अस्मे इति । तत् । इन्द्रावरुणा । वसु । स्यात् । अस्मे इति । रयिः । मरुतः । सर्व-वीरः । अस्मान् । वरूत्रीः । शरणैः । अवन्तु । अस्मान् । होत्रा । भारती । दक्षिणाभिः
बृहस्पते । जुषस्व । नः । हव्यानि । विश्व-देव्य । रास्व । रत्नानि । दाशुषे
शुचिम् । अर्कैः । बृहस्पतिम् । अध्वरेषु । नमस्यत । अनामि । ओजः । आ । चके
॥9॥.
-र्व्_3:4।10-
वृषभम् । चर्षणीनाम् । विश्व-रूपम् । अदाभ्यम् । बृहस्पतिम् । वरेण्यम्
इयम् । ते । पूषन् । आघृणे । सु-स्तुतिः । देव । नव्यसी । अस्माभिः । तुभ्यम् । शस्यते
ताम् । जुषस्व । गिरम् । मम । वाज-यन्तीम् । अव । धियम् । वधूयुः-इव । योषणाम्
यः । विश्वा । अभि । वि-पश्यति । भुवना । सम् । च । पश्यति । सः । नः । पूषा । अविता । भुवत्
तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि । धियः । यः । नः । प्र-चोदयात्
॥10॥.
-र्व्_3:4।11-
देवस्य । सवितुः । वयम् । वाज-यन्तः । पुरम्-ध्या । भगस्य । रातिम् । ईमहे
देवम् । नरः । सवितारम् । विप्राः । यज्ञैः । सुवृक्ति-भिः । नमस्यन्ति । धिया । इषिताः
सोमः । जिगाति । गातु-वित् । देवानाम् । एति । निः-कृतम् । ऋतस्य । योनिम् । आसदम्
सोमः । अस्मभ्यम् । द्वि-पदे । चतुः-पदे । च । पशवे । अनमीवाः । इषः । करत्
अस्माकम् । आयुः । वर्धयन् । अभि-मातीः । सहमानः । सोमः । सध-स्थम् । आ । असदत्
आ । नः । मित्रावरुणा । घृतैः । गव्यूतिम् । उक्षतम् । मध्वा । रजांसि । सुक्रतूइतिसु-क्रतू
उरु-शंसा । नमः-वृधा । मह्ना । दक्षस्य । राजथः । द्राघिष्ठाभिः । शुचि-व्रता
गृणाना । जमत्-अग्निना । योनौ । ऋतस्य । सीदतम् । पातम् । सोमम् । ऋत-वृधा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0