भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.9

3.9.1

॥4॥.
-र्व्_3:1।5-
(र्व्_3,9)
सखायः । त्वा । ववृमहे । देवम् । मर्तासः । ऊतये । अपाम् । नपातम् । सु-भगम् । सु-दीदितिम् । सु-प्रतूर्तिम् । अनेहसम्

3.9.2

कायमानः । वना । त्वम् । यत् । मातॄः । अजगन् । अपः । न । तत् । ते । अग्ने । प्र-मृषे । नि-वर्तनम् । यत् । दूरे । सन् । इह । अभवः

3.9.3

अति । तृष्टम् । ववक्षिथ । अथ । एव । सु-मनाः । असि । प्र-प्र । अन्ये । यन्ति । परि । अन्ये । आसते । येषाम् । सख्ये । असि । श्रितः

3.9.4

ईयि-वांसम् । अति । स्रिधः । शश्वतीः । अति । सश्चतः । अनु । ईम् । अविन्दन् । नि-चिरासः । अद्रुहः । अप्-सु । सिंहम्-इव । श्रितम्

3.9.5

ससृवांसम्-इव । त्मना । अग्निम् । इत्था । तिरः-हितम् । आ । एनम् । नयत् । मातर् इश्वा । परावतः । देवेभ्यः । मथितम् । परि

3.9.6

॥5॥.
-र्व्_3:1।6-
तम् । त्वा । मर्ताः । अगृभ्णत । देवेभ्यः । हव्य-वाहन । विश्वान् । यत् । यज्ञान् । अभि-पासि । मानुष । तव । क्रत्वा । यविष्ठ्य

3.9.7

तत् । भद्रम् । तव । दंसना । पाकाय । चित् । छदयति । त्वाम् । यत् । अग्ने । पशवः । सम्-आसते । सम्-इद्धम् । अपि-शर्वरे

3.9.8

आ । जुहोत । सु-अध्वरम् । शीरम् । पावक-शोचिषम् । आशुम् । दूतम् । अजिरम् । प्रत्नम् । ईड्यम् । श्रुष्टी । देवम् । सपर्यत

3.9.9

त्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् । औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc