भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.10

3.10.1

॥6॥.
-र्व्_3:1।7-
(र्व्_3,10)
त्वाम् । अग्ने । मनीषिणः । सम्-राजम् । चर्षणीनाम् । देवम् । मर्तासः । इन्धते । सम् । अध्वरे

3.10.2

त्वाम् । यज्ञेषु । ऋत्विजम् । अग्ने । होतारम् । ईळते । गोपाः । ऋतस्य । दीदिहि । स्वे । दमे

3.10.3

सः । घ । यः । ते । ददाशति । समिधा । जात-वेदसे । सः । अग्ने । धत्ते । सु-वीर्यम् । सः । पुष्यति

3.10.4

सः । केतुः । अध्वराणाम् । अग्निः । देवेभिः । आ । गमत् । अञ्जानः । सप्त । होतृ-भिः । हविष्मते

3.10.5

प्र । होत्रे । पूर्व्यम् । वचः । अग्नये । भरत । बृहत् । विपाम् । ज्योतींषि । बिभ्रते । न । वेधसे

3.10.6

॥7॥.
-र्व्_3:1।8-
अग्निम् । वर्धन्तु । नः । गिरः । यतः । जायते । उक्थ्यः । महे । वाजाय । द्रविणाय । दर्शतः

3.10.7

अग्ने । यजिष्ठः । अध्वरे । देवान् । देव-यते । यज । होता । मन्द्रः । वि । राजसि । अति । स्रिधः

3.10.8

सः । नः । पावक । दीदिहि । द्यु-मत् । अस्मे इति । सु-वीर्यम् । भव । स्तोतृ-भ्यः । अन्तमः । स्वस्तये

3.10.9

तम् । त्वा । विप्राः । विपन्यवः । जागृ-वांसः । सम् । इन्धते । हव्य-वाहम् । अमर्त्यम् । सहः-वृधम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc