भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.8

3.8.1

॥2॥.
-र्व्_3:1।3-
(र्व्_3,8)
अञ्जन्ति । त्वाम् । अध्वरे । देव-यन्तः । वनस्पते । मधुना । दैव्येन । यत् । ऊर्ध्वः । तिष्ठाः । द्रविना । इह । धत्तात् । यत् । वा । क्षयः । मातुः । अस्याः । उप-स्थे

3.8.2

सम्-इद्धस्य । श्रयमाणः । पुरस्तात् । ब्रह्म । वन्वानः । अजरम् । सु-वीरम् । आरे । अस्मत् । अमतिम् । बाधमानः । उत् । श्रयस्व । महते । सौभगाय

3.8.3

उत् । श्रयस्व । वनस्पते । वर्ष्मन् । पृथिव्याः । अधि । सु-मिती । मीयमानः । वर्चः । धाः । यज्ञ-वाहसे

3.8.4

युवा । सु-वासाः । परि-वीतः । आ । अगात् । सः । ओं इति । श्रेयान् । भवति । जायमानः । तम् । धीरासः । कवयः । उत् । नयन्ति । सु-आध्यः । मनसा । देव-यन्तः

3.8.5

जातः । जायते । सुदिन-त्वे । अह्नाम् । स-मर्ये । आ । विदथे । वर्धमानः । पुनन्ति । धीराः । अपसः । मनीषा । देव-याः । विप्रः । उत् । इयर्ति । वाचम्

3.8.6

॥3॥.
-र्व्_3:1।4-
यान् । वः । नरः । देव-यन्तः । नि-मिम्युः । वनस्पते । स्व-धितिः । वा । ततक्ष । ते । देवासः । स्वरवः । तस्थि-वांसः । प्रजावत् । अस्मे इति । दिधिषन्तु । रत्नम्

3.8.7

ये । वृक्णासः । अधि । क्षमि । नि-मितासः । यत-स्रुचः । ते । नः । व्यन्तु । वायर्म् । देव-त्रा । क्षेत्र-साधसः

3.8.8

आदित्याः । रुद्राः । वसवः । सु-नीथाः । द्यावाक्षामा । पृथिवी । अन्तरिक्षम् । स-जोषसः । यज्ञम् । अवन्तु । देवाः । ऊर्ध्वम् । कृण्वन्तु । अध्वरस्य । केतुम्

3.8.9

हंसाः-इव । श्रेणिशः । यतानाः । शुक्राः । वसानाः । स्वरवः । नः । आ । अगुः । उत्-नीयमानाः । कवि-भिः । पुरस्तात् । देवाः । देवानाम् । अपि । यन्ति । पाथः

3.8.10

शृङ्गाणि-इव । शृङ्गिणाम् । सम् । ददृश्रे । चषाल-वन्तः । स्वरवः । पृथिव्याम् । वाघत्-भिः । वा । वि-हवे । श्रोषमाणाः । अस्मान् । अवन्तु । पृतनाज्येषु

3.8.11

वनस्पते । शत-वल्शः । वि । रोह । सहस्र-वल्शाः । वि । वयम् । रुहेम । यम् । त्वाम् । अयम् । स्व-धितिः । तेजमानः । प्र-निनाय । महते । सौभगाय

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc