ऋग्वेदसंहिता, पदपाठ · अध्याय 3.7
॥27॥.
-र्व्_3:1।1-
(र्व्_3,7)
प्र । ये । आरुः । शिति-पृष्ठस्य । धासेः । आ । मातरा । विविशुः । सप्त । वाणीः । परि-क्षिताः । पितरा । सम् । चरेते । प्र । सर्स्रातेइति । दीर्घम् । आयुः । प्र-यक्षे
दिवक्षसः । धेनवः । वृष्णः । अश्वाः । देवीः । आ । तस्थौ । मधु-मत् । वहन्तीः । ऋतस्य । त्वा । सदसि । क्षेम-यन्तम् । परि । एका । चरति । वर्तनिम् । गौः
आ । सीम् । अरोहत् । सु-यमाः । भवन्तीः । पतिः । चिकित्वान् । रयि-वित् । रयीणाम् । प्र । नील-पृष्ठः । अतसस्य । धासेः । ताः । अवासयत् । पुरुध-प्रतीकः
महि । त्वाष्ट्रम् । ऊर्जयन्तीः । अजुर्यम् । स्तभु-यमानम् । वहतः । वहन्त् इ । वि । अङ्गेभिः । दिद्युतानः । सध-स्थे । एकाम्-इव । रोदसी इति । आ । विवेश
जानन्ति । वृष्णः । अरुषस्य । शेवम् । उत । ब्रध्नस्य । शासने । रणन्ति । दिवः-रुचः । सु-रुचः । रोचमानाः । इळा । येषाम् । गण्या । माहिना । गीः
॥1॥.
-र्व्_3:1।2-
उतो इति । पितृ-भ्याम् । प्र-विदा । अनु । घोषम् । महः । महत्-भ्याम् । अनयन्त । शूषम् । उक्षा । ह । यत्र । परि । धानम् । अक्तोः । अनु । स्वम् । धाम । जरितुः । ववक्ष
अध्वर्यु-भिः । पञ्च-भिः । सप्त । विप्राः । प्रियम् । रक्षन्ते । नि-हितम् । पदम् । वेः । प्राञ्चः । मदन्ति । उक्षणः । अजुर्याः । देवाः । देवानाम् । अनु । हि । व्रता । गुरितिगुः
दैव्या । होतारा । प्रथमा । नि । ऋञ्जे । सप्त । पृक्षासः । स्वधया । मदन्ति । ऋतम् । शंसन्तः । ऋतम् । इत् । ते । आहुः । अनु । व्रतम् । व्रत-पा । दीध्यानाः
वृषायन्ते । महे । अत्याय । पूर्वीः । वृष्णे । चित्रायःरश्मयःःसु-यामाःःदेवःहोतःःमन्द्र-तरःःचिकित्वान्ःमहःःदेवान्ःरोदसी इतिःआःइहःवक्षि
पृक्ष-प्रयजः । द्रविणः । सु-वाचः । सु-केतवः । उषसः । रेवत् । ऊषुः । उतो इति । चित् । अग्ने । महिना । पृथिव्याः । कृतम् । चित् । एनः । सम् । महे । दशस्य
इळाम् । अग्ने । पुरु-दंसम् । सनिम् । गोः । शश्वत्-तमम् । हवमानाय । साध । स्यात् । नः । सूनुः । तनयः । विजावा । अग्ने । सा । ते । सु-मतिः । भूतु । अस्मे इति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0