ऋग्वेदसंहिता, पदपाठ · अध्याय 3.61
॥7॥.
-र्व्_3:4।8-
(र्व्_3,61)
उषः । वाजेन । वाजिनि । प्र-चेताः । स्तोमम् । जुषस्व । गृणतः । मघोनि । पुराणी । देवि । युवतिः । पुरम्-धिः । अनु । व्रतम् । चरसि । विश्व-वारे
उषः । देवि । अमर्त्या । वि । भाहि । चन्द्र-रथा । सूनृताः । ईरयन्ती । आ । त्वा । वहन्तु । सु-यमासः । अश्वाः । हिरण्य-वर्णाम् । पृथु-पाजसः । ये
उषः । प्रतीची । भुवनानि । विश्वा । ऊर्ध्वा । तिष्ठसि । अमृतस्य । केतुः । समानम् । अर्थम् । चरणीयमाना । चक्रम्-इव । नव्यसि । आ । ववृत्स्व
अव । स्यूम-इव । चिन्वती । मघोनी । उषा । याआइ । स्वसरस्य । पत्नी । स्वः । जनन्ती । सु-भगा । सु-दंसाः । आ । अन्तात् । दिवः । पप्रथे । आ । पृथिव्याः
अच्छ । वः । देवीम् । उषसम् । वि-भातीम् । प्र । वः । भरध्वम् । नमसा । सु-वृक्तिम् । ऊर्ध्वम् । मधुधा । दिवि । पाजः । अश्रेत् । प्र । रोचना । रुरुचे । रण्व-सन्दृक्
ऋत-वरी । दिवः । अर्कैः । अबोधि । आ । रेवती । रोदसी इति । चित्रम् । आस्थात् । आयतीम् । अग्ने । उषसम् । वि-भातीम् । वामम् । एषि । द्रविणम् । भि क्षमाणः
ऋतस्य । बुध्ने । उषसाम् । इषण्यन् । वृषा । मही इति । रोदसी इति । आ । विवेश । मही । मित्रस्य । वरुणस्य । माया । चन्द्राइव । भानुम् । वि । दधे । पुरु-त्रा
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0