ऋग्वेदसंहिता, पदपाठ · अध्याय 3.57
॥1॥.
-र्व्_3:4।2-
(र्व्_3,57)
प्र । मे । विविक्वअन् । अविदत् । मनीषाम् । धेनुम् । चरन्तीम् । प्र-युताम् । अगोपाम् । सद्यः । चित् । या । दुदुहे । भूरि । धासेः । इन्द्रः । तत् । अग्निः । पनितारः । अस्याः
इन्द्रः । सु । पूषा । वृषणा । सु-हस्ता । दिवः । न । प्रीताः । शशयम् । दुदुह्रे । विश्वे । यत् । अस्याम् । रणयन्त । देवाः । प्र । वः । अत्र । वसवः । सुम्नम् । अश्याम्
या । जामय । वृष्णे । इच्छन्ति । शक्तिम् । नमस्यन्तीः । जानते । गर्भम् । अस्मिन् । अच्छ । पुत्रम् । धेनवः । वावशानाः । महः । चरन्ति । बिभ्रतम् । वपूंषि
अच्छ । विवक्मि । रोदसी इति । सुमेके इतिसु-मेके । ग्राव्णः । युजानः । अध्वरे । मनीषा । इमाः । ओं इति । ते । मनवे । भूरि-वाराः । ऊर्ध्वाः । भवन्ति । दर्शताः । यजत्राः
या । ते । जिह्वा । मधु-मती । सु-मेधाः । अग्ने । देवेषु । उच्यते । उरूची । तया । इह । वि श्वान् । अवसे । यजत्रान् । आ । सादय । पायया । च । मधूनि
या । ते । अग्ने । पर्वतस्य-इव । धारा । असश्चन्ती । पीपयत् । द्व् । चित्रा । ताम् । अस्मभ्यम् । प्र-मतिम् । जात-वेदः । वसो इति । रास्व । सु-मतिम् । विश्व-जन्याम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0