ऋग्वेदसंहिता, पदपाठ · अध्याय 3.56
॥31॥.
-र्व्_3:4।1-
(र्व्_3,56)
न । ता । मिनन्ति । मायिनः । न । धीराः । व्रता । देवानाम् । प्रथमा । ध्रुवाणि । न । रोदसी इति । अद्रुहा । वेद्याभिः । न । पर्वताः । नि-नमे । तस्थि-वांसः
षट् । भारान् । एकः । अचरन् । बिभर्ति । ऋतम् । वर्षिष्ठम् । उप । गावः । आ । अगुः । तिस्रः । महीः । उपराः । तस्थुः । अत्याः । गुहा । द्वे इति । निहितेइतिनि-हिते । दर्शि । एका
त्रि-पाजस्यः । वृषभः । विश्व-रूपः । उत । त्रि-उधा । पुरुध । प्रजावान् । त्रि-अनीकः । पत्यते । माहिन-वान् । सः । रेतः-धा । वृषभः । शश्वतीनाम्
अभीके । आसाम् । पद-वीः । अबोधि । आदित्यानाम् । अह्वे । चारु । नाम । आपः । चित् । अस्मै । अरमन्त । देवीः । पृथक् । व्रजन्तीः । परि । सीम् । अवृञ्जन्
त्री । षध-स्था । सिन्धवः । त्रिः । कवीनाम् । उत । त्रि-माता । विदथेषु । सम्-राट् । ऋत-वरीः । योषणाः । तिस्रः । अप्याः । त्रिः । आ । दिवः । विदथे । पत्यमानाः
त्रिः । आ । दिवः । सवितः । वार्याणि । दिवे--दिवे । आ । सुव । त्रिः । नः । अह्नः । त्रि--धातु । रायः । आ । सुव । वसूनि भग । त्रातः । धिषणे । सातये । धाः
त्रिः । आ । दिवः । सविता । सोषवीति । राजाना । मित्रावरुणा । सुपाणी इतिसु-पाणी । आपः । चित् । अस्य । रोदसी इति । चित् । उर्वी इति । रत्नम् । भिक्षन्त । सवितुः । सवाय
त्रिः । उत्-तमा दुः-नशा । रोचनानि । त्रयः । राजन्ति । असुरस्य । वीराः । ऋत-वानः । इषिराः । दुः-दभासः । त्रिः । आ । दिवः । विदथे । सन्तु । देवाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0