भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 3.55

3.55.1

॥27॥.
-र्व्_3:3।28-
(र्व्_3,55)
उषसः । पूर्वाः । अध । यत् । वि-ऊषुः । महत् । वि । जज्ञे । अक्षरम् । पदे । गोः । व्रता । देवानाम् । उप । नु । प्र-भूषन् । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.2

मो इति । सु । नः । अत्र । जुहुरन्त । देवाः । मा । पूर्वे । अग्ने । पितरः । पद-ज्ञाः । पुराण्योः । सद्मनोः । केतुः । अन्तः । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.3

वि । मे । पुरु-त्रा । पतयन्ति । कामाः । शमि । अच्छ । दीद्ये । पूर्व्याणि । सम्-इद्धे । अग्नौ । ऋतम् । इत् । वदेम । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.4

समानः । राजा । वि-भृतः । पुरु-त्रा । शये । शयासु । प्र-युतः । वना । अनु । अन्या । वत्सम् । भरति । क्षेति । माता । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.5

आक्षित् । पूर्वासु । अपराः । अनूरुत् । सद्यः । जातासुतरुणीषु । अन्तरिति । अन्तः-वतीः । सुवते । अप्रवीताः । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.6

॥28॥.
-र्व्_3:3।29-
शयुः । परस्तात् । अध । नु । द्वि-माता । अबन्धनः । चरति । वत्सः । एकः । मि त्रस्य । ता । वरुणस्य । व्रतानि । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.7

द्वि-माता । होता । विदथेषु । सम्-राट् । अनु । अग्रम् । चरति । क्षेति । बुध्नः । प्र । रण्यानि । रण्य-वाचः । भरन्ते । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.8

शूरस्य-इव । युध्यतः । अन्तमस्य । प्रतीचीनम् । ददृशे । विश्वम् । आयत् । अन्तः । मतिः । चरति । निः-सिधम् । गोः । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.9

नि । वेवेति । पलितः । दूतः । आसु । अन्तः । महान् । चरति । रोचनेन । वपूंषि । बिभ्रत् । अभि । नः । वि । चष्टे । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.10

विष्णुः । गोपाः । परमम् । पाति । पाथः । प्रिया । धामानि । अमृता । दधानः । अग्निः । ता । विश्वा । भुवनानि । वेद । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.11

॥29॥.
-र्व्_3:3।30-
नाना । चक्रातेइति । यम्या । वपाऊंषि । तयोः । अन्यत् । रोचते । कृष्णम् । अन्यत् । श्यावी । च । यत् । अरुषी । च । स्वसारौ । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.12

माता । च । यत्र । दुहिता । च । धेनू इति । सबर्दुघेइतिसबः-दुघे । धापयेतेइति । समीची इतिसम्-ईची । । ऋतस्य । ते । सदसि । ईळे । अन्तः । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.13

अन्यस्याः । वत्सम् । मिमाय । कया । भुवा । नि । दधे । धेनुः । ऊधः । ऋतस्य । सा । पयसा । अपिन्वत । इळा । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.14

पद्या । वस्ते । पुरु-रूपा । वपूंषि । ऊर्ध्वा । तस्थौ । त्रि-अविम् । रेरिहाणा । ऋतस्य । सद्म । वि । चरामि । विद्वान् । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.15

पदेइवेतिपदे--इव । निहितेइतिनि-हिते । दस्मे । अन्तरिति । तयोः । अन्यत् । गुह्यम् । आविः । अन्यत् । सध्रीचीना । पथ्या । सा । विषूची । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.16

॥30॥.
-र्व्_3:3।31-
आ । धेनवः । धुनयन्ताम् । अशिश्वीः । सबः-दुघाः । शशयाः । अप्र-दुग्धाः । नव्याः-नव्याः । युवतयः । भवन्तीः । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.17

यत् । अन्यासु । वृषभः । रोरवीति । सः । अन्यस्मिन् । यूथे । नि । दधाति । रेतः । सः । हि । क्षपावान् । सः । भगः । सः । राजा । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.18

वीरस्य । नु । सु-अश्व्यम् । जनासः । प्र । नु । वोचाम । विदुः । अस्य । देवाः । षोळ्हा । युक्ताः । पञ्च-पञ्च । आ । वहन्ति । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.19

देवः । त्वष्टा । सविता । विश्व-रूपः । पुपोष । प्र-जाः । पुरुधा । जजान । इमा । च । विश्वा । भुवनानि । अस्य । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.20

मही । सम् । ऐरत् । चम्वा । समीची इतिसम्-ईची । उभे । ते । अस्य । वसुना । न्यृष्टेइतिनि-ऋष्टे । शृण्वे । वीरः । विन्दमानः । वसूनि । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.21

इमाम् । च । नः । पृथिवीम् । विश्व-धायाः । उप । क्षेति । हित-मित्रः । न । राजा । पुरः-सदः । शर्म-सदः । न । वीराः । महत् । देवानाम् । असुर-त्वम् । एकम्

3.55.22

निः-सिध्वरीः । ते । ओषधीः । उत । आपः । रयिम् । ते । इन्द्र । पृथिवी । बिभर्ति । सखायः । ते । वाम-भाजः । स्याम । महत् । देवानाम् । असुर-त्वम् । एकम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc