ऋग्वेदसंहिता, पदपाठ · अध्याय 3.54
॥23॥.
-र्व्_3:3।24-
(र्व्_3,54)
इमम् । महे । विदथ्याय । शूषम् । शश्वत् । कृत्वः । ईड्याय । प्र । जभ्रुः । शृणोतु । नः । दम्येभिः । अनीकैः । शृणोतु । अग्निः । दिव्यैः । अजस्रः
महि । महे । दिवे । अर्च । पृथिव्यै । कामः । मे । इच्छन् । चरति । प्र-जानन् । ययोः । ह । स्तोमे । विदथेषु । देवाः । सपर्यवः । मादयन्ते । सचा । आयोः
युवोः । ऋतम् । रोदसी इति । सत्यम् । अस्तु । महे । सु । णः । सु-विताय । प्र । भूतम् । इदम् । दिवे । नमः । अग्ने । पृथिव्यै । सपर्यामि । प्रयसा । यामि । रत्नम्
उतो इति । हि । वाम् । पूर्व्याः । आविविद्रे । ऋतवरी इत्य् ऋत-वरी । रोदसी इति । सत्य-वाचः । नरः । चित् । वाम् । सम्-इथे । शूर-सातौ । ववन्दिरे । पृथिवि । वेविदानाः
कः । अद्धा । वेद । कः । इह । प्र । वोचत् । देवान् । अच्छ । पथ्या । का । सम् । एति । ददृश्रे । एषाम् । अवमा । सदांसि । परेषु । या । गुह्येषु । व्रतेषु
॥24॥.
-र्व्_3:3।25-
कविः । नृ-चक्षा । अभि । सीम् । अचष्ट । ऋतस्य । योना । विघृतेइतिवि-घृते । मदन्ती इति । नाना । चक्रातेइति । सदनम् । यथा । वेः । समानेन । क्रतुना । संविदाने इतिसम्-विदाने
समान्या । वियुतेइतिवि-युते । दूरेअन्तेइतिदूरे--अन्ते । ध्रुवे । पदे । तस्थतुः जागरूके । उत । स्वसारा । युवती इति । भवन्ती इति । आत् । ओं इति । ब्रुवातेइति । मिथुनानि । नाम
विश्वा । इत् । एते इति । जनिम । सम् । विविक्तः । महः । देवान् । बिभ्रती इति । न । व्यथेतेइति । एजत् । ध्रुवम् । पत्यते । विश्वम् । एकम् । चरत् । पतत्रि । व् इषुणम् । वि । जातम्
सना । पुराणम् । अधि । एमि । आरात् । महः । पितुः । जनितुः । जामि । तत् । नः । देवासः । यत्र । पनितारः । एवैः । उरौ । पथि । वि-उते । तस्थुः । अन्तरिति
इमम् । स्तोमम् । रोदसी इति । प्र । ब्रवीमि । ऋदूदराः । शृणवन् । अग्नि-जिह्वाः । मित्रः । सम्-राजः । वरुणः । युवानः । आदित्यासः । कवयः । पप्रथानाः
॥25॥.
-र्व्_3:3।26-
हिरण्य-पाणिः । सविता । सु-जिह्वः । त्रिः । आ । दिवः । विदथे । पत्यमानः । देवेषु । च । सवितरिति । श्लोकम् । अश्रेः । आत् । अस्मभ्यम् । आ । सुव । सर्व-तातिम्
सु-कृत् । सु-पाणिः । स्व-वान् । ऋत-वा । देवः । त्वष्टा । अवसे । तानि । नः । धात् । पूषण्-वन्तः । ऋभवः । मादयध्वम् । ऊर्ध्व-ग्रावाणः । अध्वरम् । अतष्ट
विद्युत्-रथाः । मरुतः । ऋष्टि-मन्तः । दिवः । मर्याः । ऋत-जाताः । अयासः । सरस्वती । शृणवन् । यज्ञियासः । धात । रयिम् । सह-वीरम् । तुरासः
विष्णुम् । स्तोमासः । पुरु-दस्मम् । अर्काः । भगस्य-इव । कारिणः । यामनि । ग्मन् । उरु-क्रमः । ककुहः । यस्य । पूर्वीः । न । मर्धन्ति । युवतयः । जनित्रीः
इन्द्रः । विश्वैः । वीर्यैः । पत्यमानः । उभे इति । आ । पप्रौ । रोदसी इति । महि-त्वा । पुरम्-दरः । वृत्र-हा । धृष्णु-सेणः । सम्-गृभ्य । नः । आ । भर । भूरि । पश्वः
॥26॥.
-र्व्_3:3।27-
नासत्या । मे । पितरा । बन्धु-पृच्छा । स-जात्यम् । अश्विनोः । चारु । नाम । युवम् । ह् इ । स्थः । रयि-दौ । नः । रयीणाम् । दात्रम् । रक्षेथेइति । अकवैः । अदब्धा
महत् । तत् । वः । कवयः । चारु । नाम । यत् । ह । देवाः । भवथ । विश्वे । इन्द्रे । सखाः । ऋभु-भिः । पुरु-हूत । प्रियेभिः । इमाम् । धियम् । सातये । तक्षत । नः
अर्यमा । णः । अदितिः । यज्ञियासः । अदब्धानि । वरुणस्य । व्रतानि । युयोत । नः । अनपत्यानि । गन्तोः । प्रजावान् । नः । पशु-मान् । अस्तु । गातुः
देवानाम् । दूतः । पुरुध । प्र-सूतः । अनागान् । नः । वोचतु । सर्व-ताता । शृणोतु । नः । पृथिवी । द्यौः । उत । आपः । सूर्यः । नक्षत्रैः । उरु । अन्तरिक्षम्
शृण्वन्तु । नः । वृषणः । पर्वतासः । ध्रुव-क्षेमासः । इळया । मदन्तः । आदित्यैः । नः । अदितिः । शृणोतु । यच्छन्तु । नः । मरुतः । शर्म । भद्रम्
सदा । सु-गः । पितु-मान् । अस्तु । पन्था । मध्वा । देवाः । ओषधीः । सम् । पिपृक्त । भगः । मे । अग्ने । सख्ये । न । मृध्याः । उत् । रायः । अश्याम् । सदनम् । पुरु-क्षोः
स्वदस्व । हव्या । सम् । इषः । दिदीहि । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि । विश्वान् । अग्ने । पृत्-सु । तान् । जेषि । शत्रून् । अहा । विश्वा । सु-मनाः । दीदिहि । नः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0